________________
१२९
लक्ष्मीदुरन्ततायां श्रीपतिकथा दिनैः कतिपयैर्मित्रमापृच्छ्याऽतुच्छसम्मदः । समृद्धिदत्तः स्वपुरी, [प्रति] प्रातिष्ठतोन्मनाः ॥६२॥ क्षेमेण स्वपदं चाप्तो, वसुसम्भारभासुरः । स्वजनांस्तोषयामास, कोकानिव दिवाकरः ॥६३॥ परस्परं लेखहस्तान्, पुरुषान् सुहृदाविमौ । हृदयप्रीतये शश्वत्, प्रजिघ्यतुरयोजितौ ॥६४॥ अशोकदत्तोऽथान्येद्युः, सुते जाते स्वमन्दिरे । आनन्दिताशेषलोकं, महामहमचीकरत् ॥६५॥ पात्रापात्राविचारेणाऽशोकदत्तस्तदा श्रियम् । ववर्षाऽऽषाढपर्जन्य, इवाखण्डमखण्डधीः ॥६६॥ श्रीदानप्रीणितैर्लोकैरयं बालः श्रियः पतिः । यदूचे तेन तातोऽपि, तं नाम्ना श्रीपति व्यधात् ॥६७|| अशोकप्रहितैः पुंभिः, पुत्रोत्पत्त्या तया रयात् । वद्धितः समृद्धिदत्तश्चित्ते बाढममोदत ॥६८॥ अकारयन्महा च, स्वसद्मनि महामहम् । मित्र[स्य] हि सुतोत्पत्ति, बुधाः स्वस्यैव मन्वते ॥६९॥ दध्यौ च धीरधीः पूर्वसुकृतैरद्भुतैर्मम । रमा रत्नाकरस्येव, जायते यदि नन्दना ॥७०॥ तत्तया मित्रपुत्रं तं, स्वीकृत्य पुरुषोत्तमम् । भजाम्येष कृतार्थत्वं, चिरकालेष्टसिद्धितः ॥७१।। अथो समृद्धिदत्तस्य, गते काले कियत्यपि । तनया नयनानन्ददायिनी समजायत ॥७२॥