________________
१२८
श्रीअजितप्रभुचरितम् सर्गः-२ वाद्धिकल्लोलसौभ्रात्रादिव लक्ष्मीश्चलाचला । एकत्र कुत्रचित् स्थाने, नैव बध्नात्यवस्थितिम् ॥५२।। सस्नेहं लाल्यमानाऽपि, महायत्नेन धिग् रमा । रामेव स्वैरिणी जन्तून्, क्षणात् त्यक्त्वाऽपगच्छति ॥५३।। दृष्टान्तं श्रीपतेः स्पष्टमाकर्णयत कोविदाः ! । इन्दिरामोहनाशाय, प्रोल्लासाय च सन्मतेः ॥५४॥ तथाहिसमस्ति भरते भूरिभूरिराशिभिरुज्ज्वलैः । दिदृक्षयाऽऽगतैर्मेरुशृङ्गैरिव विराजिता ॥५५।। लक्ष्मीपतिकृतावासा, सरस्वन्मध्यभूरिव । दक्षिणस्यां दिशि पुरी, मथुरा नाम विश्रुता ॥५६॥ युग्मम् ॥ अशोकदत्तनामाऽऽसीद्वाणिजस्तत्र यः श्रियः । देशे देशे प्रापणेनाऽपूरि चापलकौतुकम् ॥५७।। श्रेष्ठी समृद्धिदत्ताख्योऽन्यदोदङ्मथुरास्थितिः । व्यवसायवशात् प्राप, पण्यान्यादाय तां पुरीम् ॥५८।। पण्यस्याऽऽदानदानाभ्यामशोकस्य सहाऽमुना । रवेः पद्मवनेनेव, सौहृदं समजायत ॥५९।। उचितालापवस्त्रादिदानैः प्रेम तयोमिथः । दिनापरार्द्धच्छायेव, व्यवद्धिष्टाऽधिकाधिकम् ॥६०॥ तदजर्यं स्थिरीकर्तुमिति तौ प्रत्यपद्यताम् । एकस्याऽङ्गजयाऽन्यस्य, विवाह्यो धर्ममङ्गजः ॥६१॥ १. स्वर्णराशिभिः । २. मित्रताम् ।