________________
लक्ष्यादिविरसतासूचिका गुरोर्देशना
१२७ सोमसौम्याकृति धर्मरत्नरोहणभूधरम् । मोहान्धतमसादित्यं, गाम्भीर्यजितसागरम् ॥४२॥ कषायतीव्रदावाग्निविध्यापनघनाघनम् । रागद्वेषमहासर्पदर्पापहृतिकाश्यपि[म्] ॥४३॥ हितोपदेशपीयूषकुण्डं खण्डितमन्मथम् । प्रमादकरिशार्दूलं, पापामयमहौषधम् ॥४४॥ स्वाध्यायनिरतैः पापविरतैः सत्क्रियादृतैः । साधुभिर्वरिवस्यांहिं, तत्रादर्शच्च तं गुरुम् ॥४५॥ चतुर्भिः कलापकम् ।। धर्मलाभाशिषा श्रेयोद्रुमालीबीजभूतया । आन[न्द] यद्वन्दमानं, नृपं गुरुररिन्दमः ॥४६॥ भूपोऽप्यवग्रहभुवं, मुक्त्वा स्मितमुखाम्बुजः । न्यषदद्दिविषद्गर्वसर्वस्वं संहरन् श्रिया ॥४७॥ अथो मुनिपतिर्भव्यसत्त्वानुग्रहकाम्यया । धर्मोपनिषदं प्रादुश्चकार करुणार्द्रहृत् ॥४८॥ 'भो भव्या ! भाग्यतो लब्धे, दुर्लभे मानवे भवे । मोहं स्पष्टाऽघसन्दोहं, हित्वा धत्ताऽऽत्मनो हितम् ॥४९॥ लक्ष्म्यां बन्धुषु नारीषु, विषयेषु शरीरके । जडा मुह्यन्ति न त्वेषां, विन्दते दारुणान्तताम् ॥५०॥ बध्यते नैव बुद्ध्या श्री, रूपेण रमते न च । नाक्रम्यते विक्रमेण, न कुलेनाऽनुकुल्यते ॥५१॥