________________
१२६
श्रीअजितप्रभुचरितम् सर्गः-२
सञ्जातसुकृतद्रोहस्तन्मोहस्तेषु को मम । परलोकाध्वनीनं मामनुयास्यन्त्यमी न यत् ॥३२॥ ध्यात्वेति प्रातःकृत्यानि, विधाय विधिवन्नृपः । अलञ्चक्रे सदः सेवायातभूपालभूषितम् ॥३३॥ तदोद्यानभुवं प्राप्तं, नामतोऽरिन्दमं गुरुम् । कल्पद्रुमिव भूभत्रे, शशंसोद्यानपालकः ॥३४॥ हर्षोत्कर्षोल्लसद्रोमहर्षस्तं भूपतिस्ततः । स्वीयसर्वाङ्गसंसर्गिभूषणैः पर्यतोषयत् ॥३५।। अथ नन्तुं मुनि हस्तिमल्लाभं हस्तिनं श्रितः । छत्रचामरचारुश्रीः, सामन्तशतसंयुतः ॥३६॥ सिन्धुरैरञ्जनक्ष्माध्रबन्धुभिर्बन्धुरप्रभः । वाजिभिः स्वर्णपर्याणभाजिभिर्धाजितान्तिकः ॥३७॥ रथैर्व्यर्थीकृताऽस्वप्नविमानैः परिवेष्टितः । प्रभुप्रसत्तिसोत्साहैः, पत्तिभिः सेवितोऽभितः ॥३८॥ वर्यमङ्गलतूर्याणां, निनदैर्नादयन् दिशः । सूतैस्तारस्वरं स्तूयमानोद्दामगुणावलिः ॥३९॥ सारशृङ्गारवारस्त्रीपरीतः प्रस्थितः क्षणात् । समवाप तदुद्यानं, नन्दनश्रीविडम्बकम् ॥४०॥ पञ्चभिः कुलकम् ॥ उत्तीर्य च गजस्कन्धाद्भवबन्धादिव द्रुतम् । सिद्धिद्रङ्गमिवोद्यानं, तद्विवेश विशांपतिः ॥४१॥ १. व्यर्थीकृताऽमरविमानैः ।