SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विमलवाहनराज्ञः सद्भावना शैशवे चेतनाशून्यास्तारुण्ये गर्वपर्वताः । वार्द्धके शक्तिविकला, मुधा कालं नयन्त्यहो ! ॥२१॥ अङ्गुलीविवरभ्रस्यदञ्जल्युदकसोदरम् । जीवितं को विदन्नङ्गी, कोविदोऽत्र प्रमाद्यति ॥ २२॥ नानाजन्मसहचरोऽनन्तदुःखखनिर्हहा ! | न कदापि प्रमादो मां, दुर्वयस्य इवोज्झति ॥२३॥ सर्वेषां विद्यते मृत्युर्नियतो जन्मिनामिह । जीर्यन्तं स्वं च पश्यन्ति, बुध्यन्ते न तु दुर्द्धियः ॥२४॥ लवसप्तमगीर्वाणा, अपि ते निपतन्ति चेत् । विद्वांसो ! विमृशन्त्वन्तस्तत् स्थेयत्वं [भ] वे भवेत् ? ॥ २५ ॥ आपातमधुरैः प्रान्तविषमैर्विषयैरहो ! । विचेतना विनाश्यन्ते, किम्पाकद्रुफलैरिव ॥२६॥ दुःखास्पदमपि स्वात्मत्यागभीत इवाऽन्वहम् । संसारः क्षणिकैः सौख्यैः, प्रलोभयति देहिनः ||२७|| जात्यन्धा इव जायन्ते, जन्तवः श्रीमदाकुलाः । उन्मार्गगास्ततश्चाशु, पतन्ति नरकावटे ॥२८॥ स्वजनस्नेहनिगडाः, सुदुर्भेदा अमी खलु । चिरं संसारकारायां, स्थिरं जन्तुं वितन्वते ॥२९॥ अपारभवपाथोधिमहावर्त्तप्रपातिनाम् । कण्ठबद्धशिलाकारा दारा इति विनिश्चयः ||३०|| जननी-जनक-भ्रातृ-बन्धवः प्रेमसिन्धवः । क्षमन्ते रक्षितुं नैव, पतन्तं दुर्गदुर्गतौ ॥३१॥ १२५
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy