________________
१२४
श्री अजितप्रभुचरितम् सर्गः - २
भूपोऽभाषिष्ट ' मन्त्रीश !, तान् गुरून् मम दर्शय । कृतार्थः स्यामहं धर्मं श्रुत्वा तेषां मुखाद्यथा ॥१०॥ आचष्ट सचिवाधीशो, 'मूर्त्ताः कल्पमहीरुहः | गुरवः समवाप्यन्ते, न ते सर्वत्र सर्वदा || ११ |
पूर्वोपार्जितसत्कर्मोदयशालिभिरङ्गिभिः । तेषां सङ्गतिरासन्ने, कल्याणे खलु लभ्यते ||१२|| भवान् सद्धर्मनिर्माणस्फुरत्स्फारमनोरथः । लप्स्यते नियतं सङ्ग, गुरूणामपि भूपते ! ॥१३॥ इति मन्त्रिगिरा प्रीतस्तदादि वसुधाधवः । वर्द्धिष्णुमन्वहं चित्ते, बिभ्राणो धर्मवासनाम् ॥१४॥
सुमहत्स्वपि भोगेषु, वैराग्यं कलयन् परम् । आचकाङ्क्ष क्षुधा क्षाम, इवान्नं गुरुदर्शनम् ॥१५॥ युग्मम् ॥ चिन्तयन् वार्द्धिकल्लोलचपलां कमलां कृती । वदान्यग्रामणीरेषोऽवपत् क्षेत्रेषु सप्तसु ॥१६॥ शीलजीवितसंहारोरगीषु रमणीषु च । रतिं शिथिलयामास भववासपराङ्मुखः ॥१७॥ प्रतिक्षणोल्लसच्छुद्धभावस्तपसि चान्वहम् । चक्रे दुष्कर्मजीमूतप्रचण्डपवने मनः ||१८|| अथाऽन्यदा निशाशेषे, प्रबुद्धस्य नरेशितुः । सद्भावना बभूवैवं, महानन्दपदप्रदा ॥१९॥ अस्मिन्नसारे संसारे, सारं धर्मः सतां मतः । न बुध्यन्ते न तन्वन्ति, तं तु मोहहताशयाः ॥२०॥