________________
द्वितीयः सर्गः अथाऽजल्पद्धराधीशः, स्फुरद्दन्तद्युतिच्छलात् । अन्तःपरिणतं मूर्त्तमिव धर्मं प्रदर्शयन् ॥१॥ 'मन्त्रिमुख्य ! प्रसादात्तेऽभूवं विच्छिन्नसंशयः । अज्ञासि धर्ममुन्मीलत्सम्यग्ज्ञानविलोचनः ॥२॥ त्वद्भारतीसुधापूरे, [ये] तन्वन्त्याप्लवं जनाः । तेषां भवदवोदग्रतापो निर्वाति निश्चितम् ॥३॥ मन्ये त्वत्तः परो विश्वे, न कश्चित् करुणाकरः । न वाग्मी न च शास्त्रज्ञो, न प्राज्ञो न हितावहः ॥४॥ निष्कलङ्कं धर्मतत्त्वं, वक्तुं कस्त्वां विना क्षमः ? । नैशं तमोऽतिनिचितं, को भिनत्त्यपरो रवेः' ॥५॥ सचिवोऽवोच[त] ततः, 'सम्पूर्णं सुकृतक्रमम् । वक्तुं मन्दमतिः शक्तः, क्षमापते ! मादृशः कथम् ? ॥६॥ सर्वसङ्गपरित्यक्ताः, सदाभ्यस्तजिनागमाः । निर्ममा निरहङ्कारा, निर्विकारा भवन्ति ये ॥७॥ त एव गुरवः कृत्स्नं, धर्मतत्त्वं जिनोदितम् । बुध्यन्ते सम्यगाख्यान्ति, कुर्वते च निरन्तरम् ॥८॥ तेषां मुखारविन्दाद्यो, धर्मः क्षमाप ! मया श्रुतः । तस्य लेशोऽयमम्भोधेर्वाबिन्दुवददर्शि ते' ॥९॥