________________
१२२
श्रीअजितप्रभुचरितम् सर्गः-१
गुणेषु सर्वेष्वौचित्यं, भूधरेषु च मन्दरः । तथा सर्वेषु धर्मेषु, जैनो धर्मः प्रशस्यते ॥१२३४॥ इति सचिवमुखाब्जोद्भूतमत्यन्तसारं,
वचनरसमुदारं भूपमुख्या निपीय । अलिन इव बभूवुर्बाढमानन्दपूर्णाः,
प्रतिकलमतुलोद्यद्विस्मयास्तुष्टुवुश्च ॥१२३५।। [मालिनीवृत्तम्] इति श्रीपद्मप्रभाचार्यचरणराजीवचञ्चरीकश्रीदेवानन्दसूरिविरचिते श्रीअजितप्रभुचरिते आनन्दाङ्के महाकाव्ये मङ्गलकलस-चम्पकमाला
नागकेतु-कूरगडुकर्षिदृष्टान्ताविर्भावितफलदान-शील-तपो-भावनास्वरूपचतुर्विधधर्मप्ररूपणो नाम प्रथमः सर्गः । ग्रन्थाग्रम् १२४२ अ. २४ पदस्था ।