SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भावनायां कूरगडुकमुनिकथा यवीयानप्यसौ ज्यायान्, क्षमयैव व्यराजत । ज्यायांसोऽपि यवीयांसः, कोपाटोपाद् वयं पुनः ॥ १२२५ ॥ कोपोऽनेन विजिग्ये यस्तेन चेद्विजिता वयम् । तदस्माभिः कथं नाम, काक्ष्यते गौरवं वृथा || १२२६ ॥ हीलित: क्रोधविधुरैरस्मकाभिरसौ शिशुः । सहमान: शमावासो, वासवाभ्यर्च्यतां ययौ ॥१२२७॥ इति भावयतां तेषामपि ज्ञानमभूद्वरम् । भावनाकामगौः सर्वकार्यसिद्धिकरी खलु ॥१२२८॥ ततः पञ्चाऽपि भव्यौघं सुचिरं प्रतिबोध्य ते । सिद्धिनारीपरीरम्भं चक्रिरे चिरकाङ्क्षितम् ॥१२२९॥ , अतन्वतस्तन्वतां च, तस्य तेषां च सत्तपः । केवला भावनैवाऽऽसीत्, केवलज्ञानकारणम् ॥१२३०|| वैरादीन् प्रत्यनीकान् स्फुरदतुलबलान् क्लेशकोटिप्रदांश्चेज्जित्वा सत्त्वा [द] तर्का [द] भिलषसि यशस्तारपिण्डावदातम् । प्रेक्षावन्मुख्य ! बाढं जिनवरसमयस्फारशाणाधिरोपात्, तीव्रां पार्श्वे कृपाणीं कुरु विमलतरां तर्हि सद्भावनाख्याम् ॥१२३१॥ [स्रग्धरावृत्तम्] भावनायां कूरगडुकमुनिकथा । ग्रं. २०१ अमुं चतुर्विधं धर्मं, श्रीजिनोक्तं जनेश्वर ! । आराध्य स्वर्गसिद्धिश्रीसङ्गिनः स्युः शरीरिणः ॥ १२३२ ॥ १२१ यथा देवेषु देवेन्द्रश्चक्रवर्त्ती नरेषु च । वृक्षेषु कल्पविटपी, तपनश्च प्रतापिषु ॥१२३३॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy