________________
श्री अजितप्रभुचरितम् सर्ग: - १
1
चारित्रमपि सम्प्राप्ता, अभव्या बोधिवर्जिताः आग्रैवेयकमुत्पादं, लभन्ते न तु निर्वृतिम् ॥१२१५॥ सर्वे भावाः प्राप्तपूर्वाः, सर्वजीवैरनन्तशः । नाप्ता तु जातुचिद् बोधिर्भवभ्रान्तिविलोकनात् ॥१२१६ ॥ सम्प्राप्तबोधयो जीवा, विरक्ता भीषणाद् भवात् । विमुक्तममता मुक्तिमार्गमेव भजन्ति वै ॥१२१७|| सम्प्राप्तं नाशयन् बोधिरत्नमीप्सुरनागतम् । प्रमादी हा ! कथङ्कारं, पुनस्तल्लप्स्यते जडः ॥१२१८|| एवं स्वचेतसि ध्यायन्, बोधेर्दुर्लभतां भृशम् । विप्रमादपङ्कमग्नं, स्वमुद्धरत्येकबुद्धिमान् ॥१२१९॥ [बोधि:-१२] इत्थं द्वादशभेदेयं, भावना भाविता बुधैः । क्लेशलेशं विनाऽप्येकक्षणान्नयति निर्वृतिम् ॥ १२२०॥
१२०
इति केवलिनस्तस्य, देशनां मोहनाशिनीम् ।
श्रुत्वा प्रवव्रजुः केऽपि, श्राद्धत्वं केऽपि शिश्रियः ||१२२१॥
त[त]श्च सा सुरी जैनी, क्षपकांश्चतुरोऽपि तान् । उवाच ‘स्वात्मनश्चास्य, चान्तरं पश्यतर्षयः !' ॥१२२२॥
तेऽथ पश्चात्तापपरा, रङ्गद्वैराग्यबन्धुराः । संसारसिन्धुतरणि, चिन्तां चक्रुरिमां समाम् ॥ १२२३।।
सर्वज्ञशासनाभिज्ञैरप्यज्ञैरिव वैरिणाम् ।
अवकाशः कषायाणामस्माभिर्धिग् ददे हृदि ॥१२२४॥