SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्री अजितप्रभुचरितम् सर्ग: - १ 1 चारित्रमपि सम्प्राप्ता, अभव्या बोधिवर्जिताः आग्रैवेयकमुत्पादं, लभन्ते न तु निर्वृतिम् ॥१२१५॥ सर्वे भावाः प्राप्तपूर्वाः, सर्वजीवैरनन्तशः । नाप्ता तु जातुचिद् बोधिर्भवभ्रान्तिविलोकनात् ॥१२१६ ॥ सम्प्राप्तबोधयो जीवा, विरक्ता भीषणाद् भवात् । विमुक्तममता मुक्तिमार्गमेव भजन्ति वै ॥१२१७|| सम्प्राप्तं नाशयन् बोधिरत्नमीप्सुरनागतम् । प्रमादी हा ! कथङ्कारं, पुनस्तल्लप्स्यते जडः ॥१२१८|| एवं स्वचेतसि ध्यायन्, बोधेर्दुर्लभतां भृशम् । विप्रमादपङ्कमग्नं, स्वमुद्धरत्येकबुद्धिमान् ॥१२१९॥ [बोधि:-१२] इत्थं द्वादशभेदेयं, भावना भाविता बुधैः । क्लेशलेशं विनाऽप्येकक्षणान्नयति निर्वृतिम् ॥ १२२०॥ १२० इति केवलिनस्तस्य, देशनां मोहनाशिनीम् । श्रुत्वा प्रवव्रजुः केऽपि, श्राद्धत्वं केऽपि शिश्रियः ||१२२१॥ त[त]श्च सा सुरी जैनी, क्षपकांश्चतुरोऽपि तान् । उवाच ‘स्वात्मनश्चास्य, चान्तरं पश्यतर्षयः !' ॥१२२२॥ तेऽथ पश्चात्तापपरा, रङ्गद्वैराग्यबन्धुराः । संसारसिन्धुतरणि, चिन्तां चक्रुरिमां समाम् ॥ १२२३।। सर्वज्ञशासनाभिज्ञैरप्यज्ञैरिव वैरिणाम् । अवकाशः कषायाणामस्माभिर्धिग् ददे हृदि ॥१२२४॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy