________________
द्वादशभावनावर्णनम्
११९ तारुण्यभीषणारण्यवर्त्तिनो मुषिता न ये । हषीकतस्करैर्दुष्टैस्तान् स्तुवे सत्त्वशालिनः ॥१२०५॥ इत्युत्तमगुणांश्चित्ते, चिन्तयश्चेतनान्वितः । तैरेवाऽऽश्रीयते प्रेम्णा, सुहृद्भिरिव मित्रयुः ॥१२०६॥ [उत्तमगुण:-११] सुलभं सार्वभौमत्वं, सुलभा नाकनाथता । अस्मिन् संसारपाथोधौ, बोधिरत्नं तु दुर्लभम् ॥१२०७॥ तथाहि - पुद्गलानां परावर्ताननन्तान् संसृताविह । मिथ्यात्वप्रत्ययं जीवा, भ्रमणं तन्वतेऽन्वहम् ॥१२०८।। यथाप्रवृत्तकरणात्, सप्तानां कर्मणां स्थितौ । अन्तर्वाद्धि[कोटि]कोटिशेषायां सझिजन्तवः ॥१२०९।। रागद्वेषपरीणामरूपं दृढतरं किल । दुरुच्छेदं प्राप्नुवन्ति, ग्रन्थिं पूर्वमपाटितम् ॥१२१०।। युग्मम् ॥ भाविभद्रतरः कश्चिदपूर्वकरणेन तम् । भित्त्वाऽनिवृत्तिकरणं, प्रविष्टः शुध्यमानकः ॥१२११॥ उदीर्णे मिथ्यात्वे क्षीणेऽनुदीर्णे शान्तिभाजि च । प्राप्नोत्यन्तर[कर]णाद्, बोधिमत्यन्तदुर्लभाम् ॥१२१२॥ युग्मम् ॥ ग्रन्थिदेशमपि प्राप्ता, ग्रन्थिभेदाऽक्षमाः परे । सङ्क्लेशाद् भूय उत्कृष्टां, स्थिति बध्नन्ति कर्मणाम् ॥१२१३।। अनन्तशो ग्रन्थिदेशमभव्या अपि लेभिरे । तत्पाटनं तु निर्मातुं, न शक्तास्ते कदाचन ॥१२१४॥