SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीअजितप्रभुचरितम् सर्गः-१ कर्मणां निर्जरा तीव्रतपसा स्याच्छरीरिणाम् । मार्तण्डकिरणौघेन, प्रलयस्तमसामिव ॥११९५॥ बाह्याभ्यन्तरभेदेन, कुर्वाणो द्विविधं तपः । द्विधा करोति हृदयं, महामोहरिपोः प्रधीः ॥११९६।। अनशनमौनोदर्य, वृत्तिसक्षेप-लीनते । रसत्यागो वपुःक्लेशः, स्याद् बाह्यं षड्विधं तपः ॥११९७।। प्रायश्चित्तं तथोत्सर्गः, सद्ध्यानं विनयोऽपि च । स्वाध्यायो वैयावृत्त्यं चेत्येतत् षोढाऽऽन्तरं तपः ॥११९८॥ तपोविभावसुर्ज्ञानपवनप्रेरितोऽधिकम् । दीप्तः करोति संसारकान्तारं भस्मसात् क्षणात् ॥११९९।। तपसा कृशयन्नात्मवाऽमर्षविवर्जितः । कृशयत्येव दुष्कर्म, सत्त्वः सत्सत्त्वशेवधिः ॥१२००॥ सज्ज्ञानामृतकासारो, निर्जराभावनामिति । भावयन्निर्जरस्वामिनम्यतां लभते कृती ॥१२०१॥ [निर्जरा-१०] नारी वारीसमां मत्वा, त्यक्त्वा च नरकुञ्जराः । येऽर्हन्मते वने स्वैरं, रमन्ते नौमि तान् मुदा ॥१२०२॥ गुर्वास्यकुण्डसम्भूतां, जरामृत्युनिवृत्तये । ये धयन्त्यागमसुधां, त एव श्लाघ्यताजुषः ॥१२०३।। संसारचारकान्मुक्तिमिच्छवोऽर्हन्तवेदिताम् । क्रियां कुर्वन्ति ये नौमि, तानिर्ग्रन्थशिरोमणीन् ॥१२०४।। १. अग्निः । २. अर्हत्कथिताम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy