________________
११७
द्वादशभावनावर्णनम् लोकेऽस्मिन् शत्रुतां मित्रं, शत्रुश्चाप्नोति मित्रताम् । पुत्रत्वं जनकः पुत्रो, जनकत्वमपि स्पृशेत् ॥११८५॥ दयिता स्वसृतां याति, दयितात्वमपि स्वसा । इत्यादि च लोकतत्त्वं, भावयेद् भव[भ]ग्नधीः ॥११८६।। इत्थं स्मरति यो लोकतत्त्वं तत्त्वविचारकः । वामपादं प्रदत्ते स, भावारीणां गले द्रुतम् ॥११८७॥ [लोकः-७] अङ्गी प्रतिक्षणं योग-कषाय-विषयादिभिः । कर्माऽऽस्रवति कैवल्यावाप्तिविघ्ननिबन्धनम् ॥११८८॥ कषायादिविषद्रूणां, कटुकं फलमन्वहम् । जानन्नपि जनो मूढो, धिक् तानेव निषेवते ॥११८९॥ एवं विततवैराग्यो, रङ्गदास्रवभावनः । सर्वक्लेशकुरङ्गेषु, क्रमात् पञ्चाननायते ॥११९०॥ [आश्रवः-८] मनो-वाक्काययोगानां, कर्माश्रवविधायिनाम् । तिसृभिर्गुप्तिभी रोध, विदध्याद्विबुधाग्रणीः ॥११९१॥ कषाया विनिगृह्यन्ते, महोदग्राः क्रुदादयः । क्षमादिभिर्गुणैर्मन्त्रैः, सुप्रयुक्तैरिवोरगाः ॥११९२।। जिनोपदिष्टचारित्रपरिपालनतत्परैः ।। विषया विनिरुध्यन्ते, नयवद्भिरिवाऽनयाः ॥११९३॥ मार्गबाधकदोषाणां, संस्मरन्निति संवरम् । न शक्यः कर्मभिः स्प्रष्टुमप्यर्क इव कौशिकैः ॥११९४॥ [संवर:-९]