SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११६ श्री अजितप्रभुचरितम् सर्गः १ अनन्तसौख्यसदनं, गीर्वाणत्वं गतोऽपि सन् । पश्यन् स्वतोऽधिकामन्यऋद्धि बाढं विषीदति ॥ ११७५ ॥ हरन् मूढाशयस्तत्र, परकीयां स्त्रियं श्रियम् । आहतः पविनेन्द्रेण, षण्मासान् सहते व्यथाम् ॥ ११७६ ॥ तां विमानश्रियं पश्यंश्चिन्तयंश्चान्यतश्च्युतिम् । यां प्राप्नोत्यधृतिं दीनो, वेद सर्वविदेव ताम् ॥ ११७७|| संसारः स्वस्य दोषौघमेवं भावयतो जनात् । प्रकामं लज्जित इवाऽपसरत्येव दूरतः ॥ ११७८ || [संसार:-५] शुक्रशोणितभूर्मातृजग्धान्नरससर्जितः । नवस्रोत: स्रवद्विस्ररसः कायः कथं शुचिः ? ॥ ११७९ ॥ सुस्वादुन्यपि भोज्यानि, कल्पन्ते यत्र वर्चसे । प्रस्रवाय च पानानि, किं शौचं तत्र वर्ष्मणि ? ॥११८०॥ अशौचं भावयन्नेवं भव्यसत्त्वो महामतिः । कायसंस्कारविरतोऽप्याकाङ्क्षः स्याच्छिवश्रियः ॥११८१॥ [अशौचम्-६] अधोमुखन्यस्तमहाशरावोपरि संस्थितम् । शरावसम्पुटं ह्रस्वमनुकुर्वन् महाननः ॥११८२॥ ऊर्वाधस्तिर्यग्भेदेन, बिभ्राणो भुवनत्रयीम् । लोको धर्मादिभिर्द्रव्यैः, प्रपूर्णश्चिन्त्यते बुधैः ||११८३॥ युग्मम् ॥ विमाननरकद्वीपपारावारादिगोचरम् । संस्थानं चिन्तयेल्लोके, धर्मध्यानविधानधीः ॥११८४॥ १. ‘र्मातृजश्वरन्नरसर्वार्जत:' इति पु. प्रे. । २. विष्ठाय ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy