________________
११६
श्री अजितप्रभुचरितम् सर्गः १
अनन्तसौख्यसदनं, गीर्वाणत्वं गतोऽपि सन् । पश्यन् स्वतोऽधिकामन्यऋद्धि बाढं विषीदति ॥ ११७५ ॥
हरन् मूढाशयस्तत्र, परकीयां स्त्रियं श्रियम् । आहतः पविनेन्द्रेण, षण्मासान् सहते व्यथाम् ॥ ११७६ ॥ तां विमानश्रियं पश्यंश्चिन्तयंश्चान्यतश्च्युतिम् । यां प्राप्नोत्यधृतिं दीनो, वेद सर्वविदेव ताम् ॥ ११७७|| संसारः स्वस्य दोषौघमेवं भावयतो जनात् । प्रकामं लज्जित इवाऽपसरत्येव दूरतः ॥ ११७८ || [संसार:-५] शुक्रशोणितभूर्मातृजग्धान्नरससर्जितः ।
नवस्रोत: स्रवद्विस्ररसः कायः कथं शुचिः ? ॥ ११७९ ॥
सुस्वादुन्यपि भोज्यानि, कल्पन्ते यत्र वर्चसे । प्रस्रवाय च पानानि, किं शौचं तत्र वर्ष्मणि ? ॥११८०॥
अशौचं भावयन्नेवं भव्यसत्त्वो महामतिः ।
कायसंस्कारविरतोऽप्याकाङ्क्षः स्याच्छिवश्रियः ॥११८१॥ [अशौचम्-६]
अधोमुखन्यस्तमहाशरावोपरि संस्थितम् । शरावसम्पुटं ह्रस्वमनुकुर्वन् महाननः ॥११८२॥
ऊर्वाधस्तिर्यग्भेदेन, बिभ्राणो भुवनत्रयीम् । लोको धर्मादिभिर्द्रव्यैः, प्रपूर्णश्चिन्त्यते बुधैः ||११८३॥ युग्मम् ॥
विमाननरकद्वीपपारावारादिगोचरम् ।
संस्थानं चिन्तयेल्लोके, धर्मध्यानविधानधीः ॥११८४॥
१. ‘र्मातृजश्वरन्नरसर्वार्जत:' इति पु. प्रे. । २. विष्ठाय ।