________________
२० ] मुनिश्रीवीरशेखरविजयसूत्रिता [ शेषभेदोत्कृष्ट
अधुना स्त्रीवेदस्योत्कृष्ट भवस्थितिमाह "थीअ" इत्यादि, 'स्त्रिया:' स्त्रीवेवस्योत्कृष्टभवस्थितिः 'पञ्चपञ्चाशत्पल्याः' पञ्चपञ्चाशत्पल्योपमाणि भवति, · अपरिग्रहीतैशानदेवलोकदेव्या उत्कृष्टायुषस्तावन्मात्रत्वात् ।।
यदुक्तं श्रीप्रज्ञापनायाम-"ईसाणे कप्पे अपरिग्गहियदेवीणं पुच्छा, गोयमा,! जहन्नेण साइरेगं पलिओवमं उक्कोसेणं पणपनाई पलिभोवमाई," (पद.४,सू० १०२/मा.१, पत्र.१७६.२) इति ।
तथा जीवाजीवामिगमसूत्रे-"इत्थी गं भंते ! केवतियं कालं ठिती पण्णता ?, गोयमा! एगेणं आएसेणं ... ........ उक्कोसेणं पण्णपन्न पलिमोषमाई"(प्रति.२,सू.४६/पत्र.५३) इति ।
तथा चाऽस्य मलयगिरिवृत्ति:-'स्त्रिया भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता १भगवानाह-गौतम !, 'एकेनादेशेन' आदेशशब्द इह प्रकारवाची 'आदेशो त्ति पगारो' इति वचनात् एकेन प्रकारेण, .............. उत्कृष्टतः पञ्चपञ्चाशत्पल्योपमानि, एतदीशान. कल्पापरिगृहीतदेव्यपेक्षम्।' (पत्र०५३-२) इति ।
तथा बृहत्संग्रहण्यामपि-....--"पणपन्ना य देवीणं ॥१५॥" (जिन गा.१७॥१३) इति । एवं तद्वृत्तावपि ।
तथा चन्दर्षिप्रणीतबृहत्संग्रहणी--"परिगहिआणियराणि य, सोहम्मीसाण देवीणं ॥१॥' .....उक्कोसा । पलियाई....... पंचवण्णा य ॥१२॥" इति । एवं तवृत्तावपि ।
तथैव पञ्चसंग्रहमलयगिरिसरिवृत्तावपि-"ईशानकल्पे.... . ....अपरिगहीतदेवीनाम् .....------उत्कृष्टा पञ्चपञ्चाशत्पल्यो. पमानि ।" (द्वा.२,गा०३५/भा. १,पत्र. ७२-१) इति।
प्रथा-ऽवशिष्टानामपर्याप्तपञ्चेन्द्रियतिर्यगादिसप्तत्रिंशभेदा नामुत्कृष्टभवस्थिति गाथाशेषेण प्राह-"सग." इत्यादि, 'सप्त.