________________
१४ ] मुनिश्रीवीरशेखरविजयसूत्रिता [ इन्द्रिय कायभेदोत्कृष्ट - मुहूर्तमात्रत्वात् । उक्ता च पर्याप्तबादरपृथ्वीकायस्योत्कृष्टा भवस्थितिमलयगिरिमरिपादैः पञ्चसंग्रहवृत्तौ-“उत्कृष्टा भवस्थितिबर्बादरपर्याप्तपृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि ।" (गा० ३५ मलयगिरिवृत्तिः /पत्र०७०-२) इति ॥८॥
अधुना विकलेन्द्रियभेदषटकस्योत्कृष्टा भवस्थितिरेकया पथ्यार्यया प्रतिपाद्यतेबेइंदियाइगाणं, कमसो बारह समा अउणवण्णा । दिवसा तह छम्मासा, एवं तेसि समत्ताणं ।।।
(प्रे०) "बेह दियाइगाणं" इत्यादि, 'द्वीन्द्रियादिकानां' द्वीन्द्रिय प्रादिर्येषाम्. ते द्वीन्द्रियादिकाः, शेषाद्वा" (सि०७-३-१७५) इत्यनेन कचप्रत्ययः, तेषां द्वीन्द्रियौघ-त्रीन्द्रियौघ चतुरिन्द्रियौघानामुत्कृष्ट भवस्थितिः क्रमशो द्वादश 'समाः' वर्षाण्येकोनपञ्चाशाद् दिवसास्तथा षण्मासा भवति । तथाहि द्वीन्द्रियसामान्यस्योत्कृष्टभवस्थितिवश वर्षाणि, त्रीन्द्रियसामान्यस्योत्कृष्टभवस्थितिरेकोन. पञ्चाशवहोरात्राः,चतुरिन्द्रियसामान्यस्य च षण्मासा भवति ।
उक्तश्च प्रज्ञापनायाम्-"बेइदियाणं भते ! केवइयं कालं ठिई पन्नत्ता?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारससंवच्छराई, ........तेइंदियाणं भंते ! केवयं कालं ठिई पन्नत्ता ? गोयमा! जहन्नेणं अंतोमुत्तं उक्कोसेणं एगूणवन्न राइंदियाई,-चउरिदियाणं भंते ! केवइयं कालंटिई पन्नचा ?, गोयमा!, जहन्नेणं अंतोमुहत्तं उक्कोसेणं छम्मासा, (सू०९७/पत्र०१७२-२) इति ।
तथैव जीवाजीवाभिगमसूत्रे ऽपि-“से किं तं बेइंदिया ? ....ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवच्छराणि,से किंतं तेइंदिया?, ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं एगूणपण्णराइंदिया; ....से किं तं चउरिदिया? -ठिती उक्कोसेणं छम्मासा-'इति ।