________________
भवस्थितिः ] स्वोपज्ञ-प्रेमप्रभावृत्तिपरिकलिता मवस्थितिः [ ७
प्रदर्शिता चोत्कृष्टमवस्थितिस्त्रिपल्योपममिता पञ्चेन्द्रिय. तिरश्चः श्रीप्रज्ञापनासूत्रे-"पंचिंदियतिरिक्खजोणियाणं भंते ! केव. इयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेण अंतोमुहुत्तं, उक्कोसेणं तिनि पलिओवमाई"इति । एवं जीवाजीवाभिगमादिसूत्रेष्वपि ।
पञ्चेन्द्रियतिर्यकसामान्यस्य मनुष्यसामान्यस्य चोत्कृष्ट भवस्थितिस्तत्पर्याप्तभेदापेक्षयव संभवति, तदपर्याप्तभेदयोरन्तमुहूर्त. मात्रस्थितिकत्वात्।
पर्याप्तपञ्चेन्द्रिबतिर्यगुत्कृष्टभवस्थितिरपि पर्याप्तगर्भज. चतुष्पदस्थलचरसंज्ञिपञ्चेन्द्रियतिर्यगपेक्षयाऽवाप्यते । ___ तस्य चोत्कृष्टभवस्थितियथोक्तमाना प्रतिपादिता मलधारिहेमचन्द्रसूरिभिर्जीवसमासवृत्ती- “पर्याप्तगर्भजस्थल घराणां त्रीणि पल्योपमान्युत्कृष्ट मायुः''(गा.२१०/पत्र०२८६)इति । ___ तथा पञ्चसंग्रहवृत्तौ मलयगिरिमरिपादः-"चतुष्पदस्थल चराणां त्रीणि पल्योपमानि" (गा. ३५. पत्र. ७१-१) इति ।
तिरश्ची-मानुष्योरुत्कृष्टाभवस्थितिस्त्रिपल्योपमप्रमिता तु देवकुरुपञ्चकोत्तरकुरुपचका-ऽवसर्पिणीप्रथमारकोत्सपिणोषष्ठारकगतपञ्च. भरतपञ्चैरावतसत्कयुगलिन्यपेक्षया संघटते, तेषां तावदायुष्कत्वात् ।
उक्तश्च जीवाजीवाभिगमसूत्रे त्रिविधाख्यायं द्वितीयप्रतिपत्तौ- 'तिरिकग्वजोणित्थीणं भंते केवतियं कालं ठिती पण्णत्ता १, गो. जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिणि पलिओवमाई । --मणु. स्सित्थीणं भंते! केवतियं कालं ठिती पण्णता?' गोयमा! खेत्तं पडुच्च जह० अंतो० उक्को तिम्णि पलिओवमाई," (सू०४७/पत्र०५३ २/५४-१) इति। अधुना गाथाशेषेणा-ऽसंज्ञिमार्गणाभेदद्वये प्रकृतमाह-"अमण."