SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ६] मुनिश्री वीरशेखर विजयसूत्रिता [ गति संज्ञि भेदोत्कृष्ट इयमपि ज्येष्ठा भवस्थिति: सामान्यतो भणिता । विशेषतः पुनस्तत्तत्पृथिवी प्रस्तटेषु पृथक्पृथग्जातीया भवति । सा चेह ग्रन्थगौरवादिहेतुना नाऽधिकृता, ग्रन्थान्तरतो ऽवसातव्या ||३|| इदानीं तिर्यग्गत्योघादिमार्गणानामुत्कृष्टां भवस्थितिमाह - तिरियस परिगदितिरिय-रगरतप्पज्जत्तजोगिणीणं च । तिणि पलिओवमारिण अ - मरणतप्पज्जारण पुव्व कोडी उ ॥ ४ ॥ (गीतिः) ( प्रे० ) " तिरियस्स" इत्यादि, 'तिरश्वः' तिर्यग्गत्योघस्य 'पञ्चेन्द्रिय तिर्यङनर तत्पर्याप्तयोनिमतीनां च एते कृतेतरेतरद्वन्द्वा: षष्ठ्या निविष्टाः, तच्छन्दश्च "द्वन्द्वादौ श्रयमाणं पदं प्रत्येकमभिसम्बध्यते " इति न्यायात् द्वाभ्यामप्यभिसम्बध्यते, ततश्चायमर्थ:पञ्चेन्द्रियतिरश्व:: [: = पञ्चेन्द्रिय तिर्यग्गतिसामान्यस्य नरस्य = मनुष्यगतिसामान्यस्य तत्पर्याप्तयोः तच्छब्दस्य पूर्ववस्तु परामर्शका रिस्वात्पर्याप्तपञ्चेन्द्रिय तिर्यक्-पर्याप्त मनुष्ययोः, तद्योनिमत्योः - तिर्यग्योनिमती-ममुष्य योनिमत्योश्च चकारः समुच्चयार्थकः, ज्येष्ठा भवस्थितिस्त्रीणि पत्योपमाणि भवति, युगलिक भवे ततोऽधिकायुः स्थिते र भावात् । यदुक्तं श्रीजीवसमासे - "नरतिरियाणं तिपल्लं च ॥ २०३ ॥ ' इति . तथा श्रीजीवाजीवाभिगमसूत्रे ऽपि "तिरिक्खजोणियाणं नकोसेण तिन्नि पनि भावमाई, एवं मरगुस्सावि (प्रति. ३,सू. २२२ / पत्र. ४०६-२) तथा बृहत्संग्रहण्याम्-"गब्भनरतिपलिआऊ" ( गा० २६०) इति । इदमुक्तं भवति तिर्यग्गत्यो घस्योत्कृष्टा मवस्थितिह पञ्चेन्द्रिय तिर्यगपेक्षयैव त्रिपत्योपमानि प्राप्यते, शेषतिर्यग्भेदानां ततो न्यूनायुष्कत्वात् । =
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy