________________
द्विधा भवस्थितिः] स्वोपन-प्रेमप्रभावृत्तिपरिकलिता भवस्थितिः [३ न पुनः स्वतन्त्रतया स्वशक्तिप्रमावेन स्वमनीषिकयेति यावत् अनेन च ग्रन्थकृता स्वस्योद्धतत्वं निराकृतम् , स्वलघुता च प्रदर्शिता, ग्रन्थस्याऽऽदरणीयता चा-ऽऽविष्कृता । किमर्थमित्यत पाह"हियत्। ति 'हितार्थ हिताय = मोक्षाय हितार्थ स्वपरयोरित्याक्षिप्यते ततः स्व-परकल्याणार्थम् ।
तदेवं ग्रन्थकृता मङ्गलादिचतुकं प्रदर्शितम् । तद्यथा-"खविअ. भवठिइसिरिमुह रिपासं पणमिअ' इति गाथांशेन परमाभीष्टदेवता. प्रणतिलक्षणमेकान्तिकमात्यन्तिकञ्च भावमङ्गलं प्रकटीकृतम् , "वोच्छं .. .. " इत्यादिगाथोत्तरार्धेना-ऽभिधेयमभिव्यक्ती. कृतम् , "अत्तसुया' इति पदेन श्रद्धानुसारिणः प्रति गुरुपर्वक्रमरूपः सम्बन्धः प्रादुष्कृतः, तर्कानुसारिणः प्रति पुनरभिधेयाऽभिधायकरूपो-ऽनुक्तोऽपि गम्यत एव । "हियत्थं" इति पदेन च प्रयोजनमपि साक्षाद् व्यजितम् । तथाहि-प्रयोजनं द्विविधम् , अनन्तरपरम्परविभागात् , तद् द्विविधमपि द्वधा, ग्रन्थनिर्मात पठितप्रकारात् , तत्र प्रन्थनिर्मातुरनन्तरप्रयोजनं भव्यजन्तुप्रकृतग्रन्थबोधकारापणम् , ग्रन्थग्रन्थनरूपस्वाध्यायलक्षणाभ्यन्तरतपसा कर्मनिर्जरा वा, पठितुरनन्तरप्रयोजनं प्रकृतग्रन्थज्ञानम् , द्वयोरपि परम्परप्रयोजनं तु परमश्रेयःपदावाप्तिः ॥१॥
॥ इति मङ्गलादिचतुष्कम् ॥ अथ "यथोद्देशं निर्देशः" इति न्यायेनकमवजघन्योत्कृष्टायुः प्रमाणात्मिकां भवस्थित प्ररुरूपयिषरादौ तावत्तामोघतो जघन्योस्कृष्ट मेदतो द्विविधामपि पथ्यापूर्वार्धन प्राहतेत्तीसुदही जेट्ठा, भवे भवठिई लहू य खुड्डभवो । जेट्ठोघव्वऽत्थि णिरय-सुरदुपरिणदितसवेअसण्णीण।।२।(गी.)