________________
'४ ] मुनिश्रीवीरशेखरविजयसूत्रिता [भोघतो द्विधा-ऽऽदेशत चोत्कृष्ट
(प्रे) "तेत्तीसु०" इत्यादि, अोघतो 'ज्येष्ठा' उत्कृष्टा भवस्थितिः 'त्रयस्त्रिशदधयः' त्रयस्त्रिशत्सागरोपमप्रमाणा भवेत, अनुत्तरदेव-सप्तमनारकयोरन्यतरस्मिन्नेकस्मिन् भवे उत्कृष्टतस्तावत्कालावस्थायित्वात् 'मध्वी' जघन्या भवस्थितिः 'क्षुल्लक. भवः' षट्पञ्चाशदधिकशतद्वयाऽऽवलिकामितक्षुल्लकमवप्रमाणा मति, मनुष्य-तिरश्चोरन्यतरस्मिन्नेकस्मिन्नपर्याप्तभवे जघन्यतः स्तावम्मात्रकालस्थायित्वात् ।
॥ इत्योघतो जघन्योत्कृष्टभवस्थितिः ॥ ॥अथाऽऽदेशतः सप्तदशाधिकशतमार्गणाना.
मुत्कृष्टमवस्थितिः॥ प्रथा-ऽऽदेशतो भवस्थिति निरूपयितुकाम प्रादौ तावदुत्कृष्टां भवस्थितिमभिदधन् यास्वोघवदस्ति सा. ता मार्गणा संगृह्याह 'शेषेण गाथोत्तरार्धेन-"जेद्रो." इत्यादि, निरय-सुर-द्विपञ्चेन्द्रिय. त्रस-वेद संज्ञिनां' "द्वन्द्वादोश्रूयमाणं पदं प्रत्येकमभिसम्बध्यते” इति न्यायेन द्विशब्दस्य चतुभिः सम्बन्धाद् निरयस्य-निरयगति. सामान्यस्य सुरस्य-सुरगतिसामान्यस्य द्विपञ्चेन्द्रिययो:=पञ्चे. न्द्रियौघ-पर्याप्तपञ्चेन्द्रिययोद्वित्रसयो:-त्रसकायसामान्य-पर्याप्त त्रसकाययोद्विवेदयोः-पुरुषवेद-नपुसकवेदयोद्विसंज्ञिनो:-संज्ञिसामान्य. पर्याप्तसंजिनोश्चेति सर्वमीलितानां दशानां मार्गणानां ज्येष्ठा भव. स्थितिरोघबदस्ति, यथौघ उत्कृष्ट भवस्थितिस्त्रयस्त्रिंशत्सागरोपमप्रमाणा मणिता तथा ऽऽसामपि विज्ञेया, प्रोघवदिहा-ऽप्यनुत्तरसुर. सप्तमनारकयोरन्यतरस्य प्रवेशात् ॥२॥
सम्प्रति रत्नप्रमादिप्रथमादिसप्तनारकेभेदानां नरकगत्य . वान्तरमेवरूपाणामुत्कृष्टां भवस्थिति वक्तुकाम पाहैका पथ्याम् िपढमाइगरिणरयाणं, कमसो एगो य तिणि सत्त दस । सत्तरह य बावीसा, तेत्तीसा सागरा णेया ।।३।।