SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २] मुनिश्रीवीरशेखरविजयसूत्रिता [ मङ्गलादिचतुष्कमोघतो (प्रे०) "खवि." इत्यादि, 'क्षपितभवस्थितिषीमुहरिपावं मुहरौ-मुहरिसंज्ञके तीर्थे स्थितः पावः त्रयोविंशतितमो जिनेश्वरो मुहरिपावः, श्रिया=निखिलत्रिलोकोजनानां चित्त. चमत्कारोत्पादिन्या हृदयप्रह्लादकारिण्या परमार्हन्त्यमहाप्रभावप्रकटकारिण्या-ऽष्टमहाप्रातिहार्यादिसंपदाचस्त्रिशदतिशयशोभया समग्रलोकालोकाखिलभावप्रत्यक्षकारिकेवलज्ञानलक्षम्या वा संयुतो मुहरिपावः श्रीमुहरिपार्श्व:क्षपिता विनाशिता भवस्य-संसारस्य नरकादिगतिरूपस्य नारकादिभवलक्षणसंसारसम्बन्धिनीति यावत् स्थितिः वासो येन स क्षपितभवस्थितिः, स चासौ भोमुहरिपावः क्षपितमुहरिपार्श्वस्तम , क्षपितभवस्थितिश्रीमुहरिषाश्वं प्रणम्य' प्रकर्षेण त्रिकरणयोगेन नत्वा-प्रणिपातं विधाय "प्राक्काले" (सि० ५-४-४७) इत्यनेन व्याकरणसूत्रेण प्राक्कालार्थे क्त्वाप्रत्ययस्य विधीयमानत्वेनोत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह-"वोच्छं" 'वक्ष्ये मणिष्यामि शब्दतो निरूपणाविषयोकरिष्यामीति यावत् । किम् ? इत्यत पाह-"भवठिई" ति 'भवस्थिति' भवस्य नरकगत्यादिपर्यायरूपस्य भवे-नरयिकादिपर्यायरूपे वा स्थान स्थिति! =जघन्योत्कृष्टावस्थानकालात्मिका भवस्थितिः नरकगत्याद्यन्यतरैक भवसत्कजघन्योत्कृष्टकालावस्थानलक्षणा, ताम् , भवस्थितिम् =एकमवजघन्योत्कृष्टायूरूपाम् । कुत्रेत्यत पाह-"ओहे गहइंदियकायवेअसण्णीसु"ति'प्रोघे गतीन्द्रियकायवेदसंज्ञिपु' प्रोघे-नरकगत्यादिमार्गणाधिशेष विना सामान्यतः प्ररूपणायां तथा विशेषतो गतीन्द्रियकायवेदसंजिरूपमूलमार्गणापञ्चकसत्कसप्तदशाधिकशतोत्तरमार्गरणाभेदेष्विति । ननु किं स्वशक्तिसामर्थ्येन स्वमनसा वक्ष्य उताऽन्यथेत्यत पाह- "अत्तसुया" त्ति, 'प्राप्तश्रुतात्' “गम्ययपः कर्माधारे" (सि.२-२-७४) इति व्याकृतिवचनेनाऽऽप्तश्रुतमाश्रित्य,
SR No.022675
Book TitleBhavsthiti Part 01
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages68
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy