________________
112
तिलकमञ्जरी में काव्य सौन्दर्य
प्रथमसूत्रपातमम्लानमालतीकुसुमकोमलः स्वयंवरस्रजः। कस्त्रिभुवनश्लाघ्यचरितस्तदध्यासितमधिष्ठितो गजस्कन्धपीठमाकण्ठ मुत्तानिततरलतारैः पीयमानवदनलावण्यो नगरनारी लोचनैरवतरिष्यति विवाहमण्डपे वेदीबन्धम्। कस्य कन्दर्पबान्धवस्य तत्क्षणाबद्धकम्पखिन्न सरलाङ्गलौ तदीयकरपल्लवे लगिष्यति श्लाघ्यशतपत्रशङ्खातपत्रलक्षणो दक्षिणपाणिः। पृ. 174
हरिवाहन अहर्निश तिलकमञ्जरी के विषय में ही चिन्तन करने लगता है। वह बन्द नेत्रों से भी चित्रगत तिलकमञ्जरी के सौन्दर्य का प्रत्यक्षीकरण करता है। वह तिलकमञ्जरी को पाने के उपायों और अपायों के मध्य झूलता रहता है -
अधन्यः खेचरगणो यः प्रकाममनुरक्तोऽपि दूरवर्ती दृष्टिपातामृतरसस्य रूपमात्रदर्शनतरलितो वृथैव मन्मथव्यथामहमिवोद्वहति। अहो मे मूढ़ता, यदसावयतेक्षणा भूमिगोचरनृपाधिपात्मजप्रणयिनि भविष्यतीति वार्तयापि श्रुतया हर्षमुद्वहामि। सत्स्वपि रूपलावण्ययौवनशालिष्वपरेषुभूपालदारकेषु कालान्तरभुवस्तदनुरागस्यात्मानमेव लक्षीकरोमि। क्वाहम्, क्व सा, क्व भूमिगोचरस्य निकेतनं साकेतनगरम्, क्व दिव्यसङ्गसमुचिताचलप्रस्थसंस्थं रथनूपुरचक्रवालम्। अपि च विवेकिना विचारणीयं वस्तुतत्त्वम्, नोज्झितव्यो निजावष्टम्भः, स्तम्भनीयं मनः प्रसरदपथे, न देयमग्रणीत्वमिन्द्रियगणस्येत्यापि न गणयामि। असौ पुनरपरा विडम्बनायदयमात्मा मदनदाहोपशमाय प्रशममार्गभवतारितोऽप्यधोगतिं रागिणस्तदवियुगलस्यालोचयति न प्राणिजातस्य ... मधुरं मुखे तदधरप्रवालं ध्यायति न भोगसौख्यम्। युगान्तविलुलितक्षीरसागरसमं तदक्षिविस्तारमुत्प्रेक्षते न संसारम्। आरोपितानङ्गचापभङ्गर तद्भूलताललितमध्येति न विधेर्विलसितम्। अन्या अपि प्रकृष्टरूपलावण्यवत्यः प्राप्तयौवना दृष्टाः क्षितिपकन्याः। अन्यासामपि श्रुतस्तत्त्ववेदिभिरनेकधा निवेद्यमानो विलासक्रमः। न तु कयापि क्वाप्यपहृतं चेतो यथानया। कथमिदानीमासितव्यम्। किं प्रतिपत्तव्यम्। केन विधिना विनोदनीयेयमनुदिनं प्रवर्धमाना तद्देर्शनोत्कण्ठा। कस्यावेदनीयमिदमात्मीयं दुखम्। केन सार्धमालोचनीयं कर्तव्यम्। कस्य क्रमिष्यते तद्देशगमनोपायेषु बुद्धिः। कस्य सहायकेन सेत्स्यति तया सह समागमप्राप्तिः। अपि नाम दैवमनुगणं स्यादेष्यति स विद्याधरदारकः। न विस्मरिष्यति परिचयम्। करिष्यति पक्षपातम्। द्रक्ष्यति मामिह स्थितम्। निर्वक्ष्यति वचनवृत्त्या स्वयं प्रतिपन्नमर्थम्। नेष्यति तदीक्षण्णगोचरप्रापणेन मत्प्रतिकृत्तिं कृतार्थताम्। कथयिष्यति