________________
काव्यमाला।
सूर्यात्मजाजलगजध्वनितेन नित्यं
नृत्यन्ति नादविधुरीकृतपान्थसार्थाः ॥ ५ ॥ वन्येभकुम्भहृतमौक्तिकमिश्रगुञ्जा
संजातभूषणमराः शबरेन्द्रकन्याः। अस्मिन्विचित्रसिचयीकृतचित्रकाय
कायत्वचः पुरपुरंथ्रिजनं हसन्ति ॥ ६ ॥ लीलावतीमुखमिवेन्दुजयावदातं
विद्योतमानमणिकुण्डलमण्डलेन । पश्य स्खभावशुभशोभमपीदमद्य
कोचिद्वसन्तविभवेन बिभर्ति भूतिम् ॥ ७ ॥ क्रौञ्चपञ्चितदरं ननु माधवस्य __ पश्यावतारमतिमत्तशिलीमुखौघम् । येन व्यभूषि वनभूरपि मानसौक___ स्तोमेन शुभ्रकुसुमस्तबकच्छलेन ॥ ८ ॥ मन्ये प्रसूनभरसौरभवासलोभा___ दात्मा व्यसारि सहसैव विहायसापि । अस्मिन्नपि घुमणिवाहनवाहिवाहै
लवये चिरेण ववृधे दिवसैरवश्यम् ॥ ९ ॥ शङ्के वसन्तमरनिर्भरभासमान___ सीमन्तिनीमुखमयूखभराभिभूतम् । पीयूषदीधितिममुं दयितं निरीक्ष्य __ दुःखादमूर्दधति दुर्बलतां त्रियामाः ॥ १० ॥ ईदृग्वसन्तविभवेन यथा यथामी
प्रौढिं क्रमेण दिवसाः परिदर्शयन्ति । शङ्के त्रपापरिभवेन तथा तथैताः
श्यामा नवीनवनिता इव संकुचन्ति ॥ ११ ॥ १. चित्रकायो व्याघ्रः. २. रात्रयः.