SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७७ १आदिपर्व-७सर्गः] बालभारतम् । दीर्घोऽपि दैर्ध्यमभजदिवसो बमार __ कार्य कृशापि च निशा प्रिययोगमाजाम् । प्रौढोऽप्यधत्त लघुतां स पुनर्गुरुत्वं क्षामापि सा समतनोद्विरहातुराणाम् ॥ १२ ॥ तापर्द्धिरुत्तरदिशि व्रजतो रराज __राजीविनीयुवतिजीवितवल्लभस्य । काप्युत्कटा कवचितेव तदन्तराशा__ वासित्रिलोचनविलोचनवह्निबाष्पैः ॥ १३ ॥ संतापिता इव खरै रविरश्मिभारै___ स्तारा विहाय गगनं तुहिनांशुवध्वः । खेदोदबिन्दुपटलीकपटेन कान्त__ भ्रान्त्येव चन्द्रवदनावदनानि भेजुः ॥ १४ ॥ उत्तेजयत्यनिशमेणदृशां मुखानि कामायुधाय मधुरेष यथा यथोच्चैः । स्पर्धावशादिव महांसि तथा तथाय__ मुद्योतयत्यनुदिनं मृगलाञ्छनोऽपि ॥ १५॥ पुंस्कोकिले किमपि गायति सार्वभौम राज्याभिषेकमिव संतनुते सरस्य । अश्रान्तकान्तरतकौतुकजातखेद__ स्वेदोदबिन्दुभिरिह प्रमदामुखेन्दुः ॥ १६ ॥' विश्वत्रयं विजयते मकरध्वजोऽय___मस्त्रीकृतेन मम कोमलकूजितेन । एनं तथापि कुसुमास्त्रमुशन्ति लोकाः ___ पुस्कोकिलोऽरुणितदृष्टिरिति क्रुधेव ॥ १७ ॥ आपत्य विन्ध्यगिरिसीमनि मूच्छितोऽय मभ्रंकषाप्रशिखरस्खलनेन वायुः । १ सूर्यस्य.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy