________________
१ आदिपर्व - ७ सर्गः ]
बालभारतम् ।
१. यमुना.
नयविनयविवेकादभ्रविभ्राजितश्रीस्तदवनिवनिताया वल्लभो धर्मवीरः । घनघनजनपूर्ण पालयित्वा समन्ता
दकृत सुकृतदृश्यं तत्पुरं ब्रह्मणोऽपि ॥ १०४ ॥
इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि पाण्डवराज्यार्धलाभवर्णनो नाम षष्ठः सर्गः ।
सप्तमः सर्गः ।
सेवध्वमध्वरभुजामपि सेवनीयं
पाराशरं मुनिमवाप्तयदङ्गसङ्गः । वर्णः शुचित्वमसितोऽपि तदाप केश
व्याजेन येन शिरसा ध्रियते न कैः कैः ॥ १ ॥
अन्येद्युरर्जुनहरी तपसस्तनूज
मापृच्छ्य पौरपरिवारपरीतपार्थौ ।
जाते वसन्तसमये यमुनोर्मिबिन्दु
सिक्ताय खाण्डववनाय गतौ विहर्तुम् ॥ २ ॥
अन्तः प्रसृत्वरपतङ्गभवस्त्रैवन्तीनीरप्रभाभिरिव नीरदनीलवर्णम् । आलोक्य खाण्डववनं पुरतो मुरारिरानन्दकन्दलितगीर्निजगाद पार्थम् ॥ ३ ॥
उल्लेङ्घितं च परितः परितापितं च
तिग्मांशुना कलितदुःखमिवान्तरिक्षम् । पश्येदमत्र यमुनाजलसीनि वेल्ल
लीजटं वनमिषेण तपस्तनोति ॥ ४ ॥ वर्षाभ्रमादिव सुसंहतशाखिसंघशाखा तिरोहितशशिद्युमणौ मयूराः ।
७५
·