________________
१आदिपर्व-५सर्गः] बालभारतम् ।
रे' भूभुजो यदि भुजोल्लसितं न किंचि__ त्तत्कि स्पृहाजनि सुतां प्रति पार्षतस्य । जज्ञे स्पृहाथ कथमागतमागतं वा
प्राणाधिके धनुषि तत्कथमाग्रहोऽभूत् ॥ ९८ ॥ आरम्भमेतमयथाबलमाकलय्य ___ युष्मान्न कोऽपि निषिषेध मिषेण मन्त्री । चापाधिरोपणविधावपि निष्फलानां
वक्षोऽपि न स्फुटितमद्य भुजाभृतां वः ॥ ९९॥ कान्तापणेऽत्र गुरुभीष्महृदि पैव
कृष्णस्तु षोडशसहस्रवधूवशात्मा । रे कौरवा धृतभुजा मदगौरवाणां
किं वो मनःशमगुरुर्धनुरेतदेव ॥ १० ॥ रे कर्ण कुण्डलित एष न किं त्वयापि
चापः पृथुप्रथितदोर्युगपाशभाजा । किं दुर्यशःकुवलयेन तवावतंस
श्रद्धा बभूव भुवनावधि शाश्वतेन ॥ १०१ ॥ विप्रोऽप्ययं द्रुतमहीनमहीनकीर्ति
लुण्ठाकशक्तिरपसादगुरुप्रसादः । वेध्यं प्रपातयति पश्यत रे नरेन्द्राः ___ कीर्ति स्मरन्मनसि गौररुचं न कृष्णाम् ॥ इत्यैब्दशब्दजयशालिनि तस्य वाक्ये
ऽनध्यायमेकमिव चेतसि चिन्तयत्सु । क्षत्रद्विजेषु निखिलेष्वपि तेषु सद्यो
मौनावलम्बिनि नमद्वदनाम्बुजेषु ॥ १०३॥ उग्रस्वधैर्यगजगार्जिनदं कुमारी
चेतोमयूरनवनृत्तपयोदनादम् । १. भूमीभुजः' क. २. 'कुवलयं नीलोत्पलमिति राजनिघण्टुः' इति ग-पुस्तकटिप्पणी. ३. अब्दो मेघः.