SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अभ्यर्च्य चापमथ वाचमुवाच धृष्ट- घुम्नः कराम्बुजमुदश्य मुदा सदोऽन्तः । यः कश्चन स्पृहयति द्रुपदात्मजायै राधां स विध्यतु धनुर्धरधैर्यधुर्यः ॥ ९२ ॥ इत्युक्तिभाजि पृषतान्वयमौलिरत्ने ___ यत्नं न के क्षितिभुजो विदधुर्भुजालाः । तत्राधिरोपणविधावपि कोऽपि किंतु दी धनुर्निबिडितानिकषो न जातः ॥ ९३ ॥ केचिद्धनुःगुणनेऽप्यभवन्विलक्षा न प्रायशः क्षयभिया किलकेऽप्युदस्थुः । मञ्चाच्चचाल तदनु द्विजवेषधारी भीमानुजो गजगतिः सममग्रजेन ॥ ९४ ॥ मूर्त्या त्विषा च गमनेन च लीलया च राजन्यकस्य हृदि दत्तपदौ तदानीम् । एतौ समीरसुरराजसुताविति श्री__ चित्तेशभीष्मगुरुभिर्विनियम्यमानौ ॥ ९ ॥ किं भूचरौ तरणिशीतरुची किमन्यौ रोमाच्युतौ किमु गणेशगुहाविहैतौ । एतौ पुनः किमुदितौ रघुराँजपुत्रा वित्याकुलैर्नुपकुलैः सहसैव दृष्टौ ॥ ९६ ॥ . आश्लिष्यतामथ भुजाविव विक्रमस्य मूर्ती सभाग्रभुवमेकधनुर्भुवं तौ । नत्वा कृते धनुषि सजगुणेऽर्जुनेन भीमो मदादिदमुवाच भुवामधीशान् ॥ ९७ ॥ (त्रिभिर्विशेषकम्) १. 'सभासदोऽन्तः' क. २. 'निकषः परीक्षकः' इति ग-पुस्तकटिप्पणी. ३. बलभद्रकृष्णौ. ४. 'नाथ' क. ५. 'दिशां' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy