________________
१ आदिपर्व - ५ सर्गः ]
१. पि
बालभारतम् ।
देवी सरोजवसतिर्लसतीतिरूपा
नो वेति वीक्षितुमिवातिरसेन कश्चित् ॥ ८१ ॥
सद्यस्तदीयकुचदर्शनजातमावसंभाव्यमानमृदुपाणिजविभ्रमाभिः । क्रोऽप्येकपाणिपरिमीलितपत्रपङ्कि
पस्पर्श नीररुहमन्यकराङ्गुलीभिः ॥ ८६ ॥ संमार्जयन्त्र मुकलेशनिवेशभाञ्जि कश्चित्तृणाग्रलसनैर्दशनान्तराणि । दास्यं तवैव तरलाक्षि वहामि सोऽह
मित्थं मुखे किल तृणं कलयांचकार ॥ ८७ ॥ शुभ्रप्रभोर्मिपुनरुक्तविलोलहोरे
नेत्रं ददौ हृदि परः स्मरभावभिन्नः । व्यक्तां वधूमनवलोक्य पुरोऽतिदूरे
साक्षाद्विलोकितुमिवेह कृतप्रवेशाम् ॥ ८८ ॥ तस्यामनादरमना इव कश्चिदग्रे
नीचासनस्थितमभाषत यद्वयस्यम् ।
तेनैव नम्रतशिराः स रराज कामं
सामप्रविष्ट इव कामधराधिपस्य || ८९ ॥ कोsप्युलिलेख मृदुवामकराङ्गुलीभि-:
र्भावाद्भुतो विततदक्षिणपाणिमध्यम् ।
अत्युत्सुकं नृपसुताकुचकुम्भयुग्म
स्पर्शोत्सवे स्थिरयमाण इवात्तधैर्यः ॥ ९० ॥
एका विलोचनयुगेन हृदा च तन्वी सर्वैरपि क्षितिधरैर्विधृता स्मरार्तेः । एषा पुनर्धनुरलोकत युगेन
चित्तेन दोर्युगमचिन्तयदर्जुनस्य ॥ ९१ ॥
ग. २. 'हार' क.
६१.