SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६० काव्यमाला । लीलाविलासचलनिर्मलकणिकाग्रजाग्रद्विभानिभचलाचलचामरोमिंः ॥ ७९ ॥ पाणिद्वयीकलितनिर्मलमुग्धपुष्प मालाकृतप्रतिकृतिप्रतिमल्लहारा । अग्रेसरस्मरधनुर्गुणनादमञ्जु शिञ्जानकंकणकलापकनूपुरालिः ॥ ८० ॥ क्षीराम्बुराशिविहरल्लहरीनिभासु संभ्रान्तभूमिविभुवृन्ददृगन्तभासु । लक्ष्मीवि स्वयमराजत राजपुत्री कस्मैचन प्रगुणिता पुरुषोत्तमाय ॥ ८१ ॥ भूमीभृतः श्रितमुदो मदिरेक्षणाया वीक्षणादपि तदा मदमत्तचित्ताः । स्मेरस्मरस्मयविकारविसंस्थूलानि चक्रुश्चिराय विविधानि विचेष्टितानि ॥ ८२ ॥ लीलापरः कररुहाग्रपरम्पराभिः (त्रिभिर्विशेषकम् ) केशानमार्जयदनङ्गकृताभिषङ्गः । भारं न मे सृजति तन्वि शिरः स्थितापि संज्ञामिमां विरचयन्निव कोऽपि भूपः ॥ ८३ ॥ कश्चिद्यलोकत विलासविसंस्थुलात्मा १. 'बाल' क. स्वं पाणिकंकणमणौ वदनारविन्दम् । द्रष्टुं ललाटफलके ध्रुवमेतदीय लाभाक्षराणि विधिना विनिवेशितानि ॥ ८४ ॥ एतामनङ्गनृपजङ्गमराजधानीं दृष्ट्वा विलासनलिने नयनं न्ययुङ्क |
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy