SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । सूर्यात्मजामिलितजडुसुतासहस्रभ्रान्त्या सहर्षवरसप्तमहर्षिदृष्टाः । वेल्लन्ति धूपधेनधूमघटाभिराभि रुद्भासिता नभसि वाततताः पताकाः ॥ ७३ ॥ आसन्नदर्शननरेन्द्रसुताननेन्दु प्रोज्जागरस्य नृपसंमदसागरस्य । वेलातरङ्गरवराशिरिवान्तरिक्ष कुक्षिंभरिः करटिगर्जिततूर्यनादः ॥ ७४ ॥ अस्मत्पतेः सितरुचेरपि चारुरूपमाहुर्विद द्रुपदराजसुतोमुखेन्दुम् । इत्येत्य पुष्पगृहपुष्पमिषेण तारा स्तद्वीक्ष्य जग्मुरलिभिर्मलिनाननत्वम् ॥ ७९ ॥ इत्युन्मदः कृतगिरो धृतविप्रवेषा स्ते शिश्रियुर्द्विज समाजविराजितं यम् । मञ्चः स पञ्चभिरमीभिररातिजाति दर्पद्विपप्रलयपञ्चमुखश्चकासे ॥ ७६ ॥ दास्यान्पृथातनुभुवे द्रुपदः कुमारीं ज्ञातुं च तं धनुरचीकरदत्युदारम् | `वैहायसाख्यकृतयन्त्रगतं च लक्ष्यं पुत्रीविवाहपणमत्र कृती ततान ॥ ७७ ॥ आबिभ्रती कुसुमकार्मुककार्मुकाभं पाणौ स्वयंवरणमाल्यमथो कुमारी । शृङ्गारसागरतरङ्गकरङ्गदम्बु बिन्दूपमा भ्रमरराशिरवाप रङ्गम् ॥ ७८ ॥ मुक्तावलीमय किरीटमरीचिवारगुच्छानुकारविमलातपवारणश्रीः । १. 'घट' क-ख. २. 'आनन' क. १९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy