SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कुम्भीनसी तदबलाथ पृथां नृपं च . दैन्यान्ननाम तदमुच्यत सोऽर्जुनेन ॥ ६६ ॥ मैत्र्यं चकार सह तेन पृथातनूज___ स्तस्मै ददौ दहनमन्त्रमयं च शस्त्रम् । पार्थाय सोऽप्यदित विश्वदृशं च विद्यां ___ मेने युधे च हयपञ्चशतीमभेद्याम् ॥ ६७ ॥ उत्कोचकाख्यशुचितीर्थपति विधाय धौम्य पुरोहितममी सुहृदोऽथ वाचा । वाचस्पतिव्यतिकरप्रहतोपसर्गा न्वौकसोऽप्यनगणन्न तृणाय पार्थाः ।। ६८ ॥ गत्वा पुरे द्रुपदभूमिधवस्य मात्रां मात्रा समं किल कुलालगृहं विमुच्य । ते जग्मुराशु रमणीपणभूतराधा वेधव्यधाय नृपसंसदि षोडशेऽह्नि ॥ ६९ ॥ वीक्ष्य स्वयंवरणमण्डलमग्रतोऽथ व्याचष्ट धर्मतनुजोऽनुजमण्डलाय । वर्गोऽवतारित इव द्रुपदेन सोऽयं न्यकुर्वता पुरुषकारवशेन दैवम् ॥ ७० ॥ तस्यास्ततेषु निजकुण्डभुवो विवाह यज्ञेषु रत्नमयमञ्चचयच्छलेन । आश्चर्यमग्नहृदयः स्वयमत्र चित्र विन्यस्तमूर्तिरिव पश्यति पावकोऽपि ॥ ७१ ॥ आकारितासु चलचन्दनमालयैव भ्रूसंज्ञया नृपतिपतिषु मण्डपोऽयम् । कन्यानुरूपमिह भूपमवीक्ष्य कंचि दुच्चैः समाह्वयति केतुकरैः सुरेन्द्रान् ॥ ७२ ।।
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy