________________
५०
काव्यमाला |
रङ्गाद्बहिर्बहु बभूव कुतोऽपि दोष्णोरास्फालनध्वनिरथ ध्वनितान्तरिक्षः ॥ १४ ॥
मत्तद्विपेन्द्र इव सान्द्रमदः पुरस्ताद्वेधावघट्टितपुरोजनदत्तवर्त्मा । रङ्गेऽविशत्सहजकाञ्चनकर्णिकावा
कर्णस्ततः कवचवत्त्वचमेव बिभ्रत् ॥ १९ ॥
कोऽयं महाभट इति क्षितिपैर शेषैरालोक्यमानवदनः सदनं मदस्य । द्रोणं कृर्षं च सपदि प्रणिपत्य पार्थ -
स्पर्धी व्यधत्त सकलास्त्रकलाः किलासौ ॥ १६ ॥ इत्यर्जुनप्रतिभटाय भटाय तस्मै
चम्पां ददौ कुरुपतिः कृतसौहृदाय ।
अत्रान्तरे च नृपसारथिराजगाम
कर्णो नमाम तमतः पितृगौरवेण ॥ १७ ॥ दत्ता त्वया किमिव सूतसुताय चम्पा
लैम्पाकपाकरिपुसूनुरिति ब्रुवाणः । भीमेन साकमथ चापमवाप्य कर्ण
दुर्योधनावपि धनुर्दधतुः क्रुधार्तौ ॥ १८ ॥
यावत्कुलक्षयकरं कलयन्ति नाङ्के
शङ्काकुले सकलराजकुले कलिं ते ।
तेषां प्रतापदहनैरिव तप्तमूर्ति
स्तावत्पपात तपनोऽप्यपराम्बुराशौ ॥ १९ ॥ अग्रस्फुरन्निजबलप्रबलप्रताप
श्रीभिस्तदस्ततमसो नवदीपिकाभिः । ते कौरव गृहमगुर्मदगौरवाढ्या
स्ते पाण्डवाः कलितविक्रमताण्डवाश्च ॥ २० ॥
१. 'विघट्टित' ग. २. लम्पाको लम्पट इति ग- पुस्तक टिप्पणी.