SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ - १आदिपर्व-५सर्गः] बालभारतम् । मत्वा स्पृहामथ गुरोर्गुरुदक्षिणायां जित्वा नियन्त्रितमदुर्दुपदं कुमाराः । तं चाह साहसरसेन हसन्विरोधं मुक्त्वा कृपीपतिरवाप्तकृपः पुरस्तात् ॥/// ॥ प्राग्बालकेलिसुहृदा प्रतिपन्नमर्धे लब्धस्य राज्यविभवस्य किल त्वया मे । आसाद्य तं द्रुपद यन्मदतो न्यकार्षी रोषेण मो तदिदमद्य फलं तवाभूत् ।। मित्रं ममासि पितृमित्रसुतोऽसि तस्मा दुक्तं स्वमेव परिपालय भूमिपाल । उक्त्वेति राज्यविषयार्धमपि प्रदाय प्रैषीद्गुरुद्रपदमादृतगुप्तवैरम् ॥ २३ ॥ (त्रिभिर्विशेषकम्) तस्मिञ्जये पृषतपार्थिवनन्दनस्य _ विश्वाधिको हरिसुतौ सततं विचिन्त्य । धर्माङ्गजं जनितपौरजनानुरागं मत्त्वा च कौरवपतिः पितरं जगाद ॥ २४ ॥ तात व तावककुलस्य कथापि पार्था येनानुरञ्जितजनाश्च जैयोज्ज्वलाश्च । एतान्विवासय निवासय तत्र दूरे __ श्रीवारणावतपुरे छलजः कुतोऽपि ॥ २५ ॥ श्रुत्वेति सूनुवचनानि युधिष्ठिराय तां वारणावतपुरीमदित प्रसादात् । एषा क्षितौ सुरपुरीव सुरैरिवैषा - लोकैर्वृतेति कथयन्नथ सर्वथान्धः ॥ २६ ॥ भावं विदन्भृशममुष्य महासहायं मत्त्वा तदङ्गजगणं सहनद्विषन्तम् । १. भीमार्जुनौ. २. 'जयोल्बणा:' क. ३. 'विनाशय' इति क-पुस्तके टिप्पणीभूतः पाठः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy