SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ५ सर्गः ] बालभारतम् । द्रोणाज्ञयाथ विदितां मुदितोऽस्त्रविद्यां विद्योतमानविनयस्तनयः पृथायाः । भूपेषु विस्मयरसप्रसरेण चित्ररूपेष्वदीदृशदनीदृशविक्रमश्रीः ॥ ८ ॥ धीरैर्गुणध्वनिभिरर्जुन कार्मुकस्य त्रस्तस्तदा दिनपतेर्ध्रुवमष्टमोऽश्वः । तन्मुक्तमार्गणगणप्रभवैरदायि भ्रान्तिस्तदैव दिवि गन्धवहैर्ग्रहेभ्यः ॥ ९ ॥ आसीत्तदार्जुनधनुर्गुणमुक्तवाण पक्षोद्भवो नभसि कोऽपि भृशं स वायुः । उन्मूलितारिकुलमानमहीरुहेण येनाघटि क्षितिभृतामपि मौलिकम्पः ॥ १० ॥ आसीद्गुरुर्गिरिरिवाणुरिवातिसूक्ष्मो दृश्यस्तडिल्लव इव द्रुतमप्यदृश्यः । सोऽभ्युत्पपात पतगेन्द्र इवान्तरिक्षं सारस्वतौघ इव भूमितलं विवेश ॥ ११ ॥ नीरं यशो निजमिव स्वमिव प्रताप मग्निं स्वकीयमिव गौरवमद्रिजालम् । तन्वन्निति क्षितिपभूर्विभवद्विभावो दिव्यास्त्रदर्शनरसः स तदा मुदेऽभूत् ॥ १२ ॥ सर्वास्त्रकौशलकलाकलितेऽथ तस्मि न्नित्थं स्थिते भुजभुजिष्यभुजंगराजे । लोकस्तदाननविलोकरसस्तदाभू द्वद्धश्चमत्कृतिगुणैरिव निश्चलाङ्गः ॥ १३ ॥ दासीकृतक्षयपयोधितरङ्गभङ्गः किंकारिताद्विभर भैरववज्रपातः । १. 'मुनित: ' ग. २. सरस्वतीप्रवाह:. ७ ४९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy