SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। . तद्रव्यमानजगदिष्टपुराणवाणी गर्भाद्रलद्भिरमृतैरमृतांशुरासीत् ॥ १ ॥ विस्तारशालिनि कुमारकुलश्रमेक्षा__ हेतोः कृती विदुरदर्शितभूमिभागे। भीष्मोऽन्यदा गुरुगिरा नगरस्य बाह्ये प्रापञ्चयत्किमपि मञ्चकचक्रवालम् ॥ २ ॥ भीष्मादिकेषु धृतराष्ट्रपुरोगमेषु : भूपेषु भूरिषु विभूषितमञ्चकेषु । रङ्ग प्रविश्य गुरुरुज्ज्वलवेषधारी । पुत्रान्वितो बलिविधिं विधिवव्यधत्त ॥ ३ ॥ नानाविधप्रहरणग्रहणप्रवीणा वीणामृदङ्गपटहादिषु वादितेषु । पादाङ्गुलिस्थितनतोन्नतलोकदृष्टा हृष्टास्ततोऽङ्कमविशन्वशिनः कुमाराः ॥ ४ ॥ आज्ञां गुरोर्गुणगुरोरधिगम्य वीरा धर्माङ्गजप्रभृतयोऽथ पृथुप्रभावाः । तत्रास्त्रविस्तृतिकलातनुलाघवानि भूजानिमण्डलमुदे कलयांबभूवुः ॥ ५ ॥ उद्यद्गदौ कृतमदौ तदनु प्रवीरौ __वन्यद्विपाविव विकखरचण्डशुण्डौ । विक्षोभिताखिलसभी रमसेन भीम___ दुर्योधनौ निजमदर्शयतां विरोधम् ॥ ६ ॥ दुर्वारवैरघनयोरनयोरिदानी क्षोभेण मा भवतु भेदभयं सभायाः । अन्तस्तयोर्गुरुगिरेति निरोद्धुमश्व स्थाम्ना स्थितं गिरिवरेण गरीयसेव ॥ ७ ॥ १. 'गद्यमान' ग. २. 'स्थिति' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy