SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-४सर्गः] बालभारतम् । सेवे नृपश्रियं नैव सत्योऽयं समयो मम । इति सत्यव्रतेनोक्ते पुनर्दाशपति गौ ।। ७६ ॥ कथंचित्पितृभक्त्या त्वं भविता न प्रियः श्रियः । क्रुद्धास्तु केन रुध्यन्ते गजा इव तवाङ्गजाः ॥ ७७ ॥ ततः शान्तनवः स्माह साहसी दाशवासवम् । आजन्मापि समाचर्य ब्रह्मचर्य मया व्रतम् ॥ ७८ ॥ इत्युक्ते तेन गगनाद्गीर्वाणाः पुष्पवर्षिणः । अहो भीष्मप्रतिज्ञोऽयमिति भीष्मममुं जगुः ।। ७९ ॥ तत्तां दाशपतिप्रत्तां स नृपाय मुदार्पयत् । भीष्मः पित्राप्ययं स्वेच्छाहूतमृत्युवरः कृतः ॥ ८० ॥ उदूढया तया राजा रराज गुणनद्धया। सदा हृदयवर्तिन्या पङ्कजिन्येव पल्वलः ॥ ८१ ॥ सेवमानः स तां क्षमापः क्रमात्पुत्रावजीजनत् । तपःश्रियं श्रयन्साधुर्यशोधर्माविवोज्ज्वलौ ॥ ८२ ॥ आद्यश्चित्राङ्गदोऽन्यस्तु विचित्रवीर्य इत्यपि । स गाङ्गेयेन ताभ्यां च राजाप्यासीत्रयीतनुः ॥ ८३ ॥ भूपे रूपेण साफल्यं सृजत्यनिमिषीदृशाम् । । प्रभूच्चित्राङ्गदो भीष्माभिषिक्तो रिपुभीषणः ॥ १४ ॥ येन निष्ठापितस्तीवैः प्रतापै रिपुसागरः। अपार इव संसारस्तपोभारैस्तपस्विना ॥ ५ ॥ चित्राङ्गदो मदोत्सेकाद्भीष्ममन्त्रावमानकृत् । चक्रे चित्राङ्गदाख्येन गन्धर्वेण महारणम् ॥ ८६ ॥ नाम साम्यक्रुधेवाथ गन्धर्वेण स मायया । हतो हिरण्मयी तीरे वीरो वर्षत्रयीयुधा ॥ ८७ ॥ अथ भागीरथीसूनुश्चक्रे भूचक्रभूषणम् । विचित्रवीर्यनामानं शत्रुशाखिद्विपं नृपम् ॥ ८॥ १. 'कृती' ग. ३. 'दाशपतिः' ग. ३. 'हिरण्मती' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy