________________
३४
काव्यमाला |
एका प्रववृते नावं वाहयन्ती नदीजले । तां तत्रेक्ष्य स्मरार्तोऽभून्मुनिर्भाव्यर्थभावतः || ६३ ॥ ( युग्मम् ) स्तनस्तबकिनी पाणिपदपल्लविनी मुनेः । वेणिस्फुरदलिश्रेणी मोहवल्लीव साभवत् ॥ ६४ ॥ तीरस्थिता निरीक्षन्ते मुनिपित्रादयः प्रभो । आवयोः सङ्गमित्युक्ते व्यक्तमर्थितया तया ॥ ६५ ॥ विधाय धूमरीं दिक्षु मुनिस्तां नावि सोऽभजत् । मत्स्यगन्धामपि सृजन्योजनोत्पलगन्धिकाम् || ६६ ॥ ( युग्मम् ) सद्योऽप्यते सा कृष्णं वेदविद्यायुतं सुतम् । यमुनाद्वीपज तत्वाज्जातद्वैपायनाभिधम् ॥ ६७ ॥ विपदि स्मरणीयोऽहमित्युक्त्वा जननीमसौ । कृती बालोऽपि तत्कालं तपसे विपिनं ययौ ॥ ६८ ॥ जातपुत्रापि कन्याभूत्प्रसादैः सा मुनेः पुनः । अचिन्त्यो हि प्रभावः स्यात्तपः पात्रस्य मन्त्रवत् ॥ ६९ ॥ पुत्रिणीमपि तां कन्यां सोऽन्येद्युः शंतनुर्नृपः । निरूप्प दाशवाटेषु दाशराजमयाचत ॥ ७० ॥ अथोचे दाशभूपस्तं ददे तुभ्यमिमां ततः । यदि स्यान्नृप जातोऽस्यां तनयस्तव राज्यभाक् ॥ ७१ ॥ राजापि राज्यधौरेयं ध्यात्वा देवत्रतं सुतम् । तस्य वाक्यमनादृत्य व्यावृत्य स्वपुरं ययौ ॥ ७२ ॥ नृपः सदर्पकंदर्पशरैर्विधुरितस्ततः ।
स्मरन्सत्यवतीं स्वान्ते न निद्रामपि भेजिवान् ॥ ७३ ॥ ततो मन्त्रिगिरा मत्वा तद्वृत्तं तटिनीजनिः ।
जनकाय ययाचे तां कन्यां धन्याशयः स्वयम् ॥ ७४ ॥ अथैनं यमुनाकूलवासी दाशेश्वरोऽवदत् । कथं स्यान्मम दौहित्रो राजा राज्यधरे त्वयि ॥ ७५ ॥
१. 'श्रेणिः क. २. 'दास' ग. ३. 'अस्याः' ग.