________________
४९०
। काव्यमाला।
अमृगयत नटन्तीरष्टसिद्धीः कदाचि
दिशि विदिशि कदाचिद्गीः श्रियौ युक्तपाणी ॥ ३४ ॥ नेत्रे निमीलयति चेद्भववृद्धिहेतु
भूलोकदर्शनभिया स पतिर्यतीनाम् । तद्भूरिभावभरभासुरभूतिमाला
मालोकते त्रिजगतीमपि किं मुनीन्द्रः ॥ ३५ ॥ इति सुकृतनिधानध्याननिर्धारितायु
(वमिव दिवमात्मध्यानपूतां स चक्रे । जनमनसि स जीवन्नेव रजे(रेजे.) तु तत्त
न्मतिविफलिततादृग्दुष्टयोगिप्रयोगः ॥ ३६ ॥ अमीभिस्त्रिभिरेव श्रीजिनदत्तादिनामभिः । सूरयो भूरयोऽभूवंस्तत्प्रभावास्तदन्वये ॥ ३७ ॥ एकः प्रौढविवेकविभ्रमलतापुष्पेषु पुष्पेषुजि__ त्तेषु श्रीजिनदत्तसूरिरुदयद्भरिप्रभावोऽभवत् । तादृग्विस्तृतहृन्निपीत भप्तो यस्योचितं (?) दिद्युते
धीरोम्भोधरसिन्धुसिन्धुरजयी व्याख्यासु शब्दो गुणः ॥३८॥ श्रीविवेकविलासाद्यैर्यत्प्रबन्धैः सहस्रशः । हतमोहतमोऽकारि करैरिव रवेजगत् ॥ ३९ ॥ आयुष्यं कथयन्ति जन्तुषु पयःसारात्पयोधेः पुनः .
पीयूषं पृथिवीजुषामनिमिषीभावाय संभाव्यते । विद्मः श्रीजिनदत्तसूरिवचनं सारः सुधानामपि __ व्यक्तं मुक्तिमपि प्रयच्छति सतां यत्प्रीतिमुनीतिकृत् ॥४०॥ श्रीजीवदेवसूरीणां त एव परमाणवः ।
जग्मुर्यदङ्गतां भेजे तद्गुणैस्तद्धियेव यः ॥ ४१ ॥ १. 'करोति' ग. २. ....... ने वा रेजतुस्तत्र तत्तत्स' ग. ३. सति' ग. ४. 'नभसि......' ग. ५. 'श्रीविद्याश्रीविला' ग. ६. 'पयःसारः' ग. ७. 'प्रीत'ग.