SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ कविप्रशस्तिः] बालभारतम् । श्रीवाग्भटस्थाननिवासिनस्ते संभूय भूयस्तरहर्षभाजः । कदाचिदागत्य निवेशवेश्म जगुर्द्विजास्तं मुनिचक्रशक्रम् ॥ ४२ ॥ मरुद्दात्तास्माकं भुवनजयिनौ तस्य तनयौ ___ तयोः सङ्गो यस्यामजनि हनुमद्भीमभटयोः । तथा संक्षेप्यासौ पृथुरपि महामारतकथा यथा स्वल्पाभिः स्यात्तिथिभिरतिथिः कर्णपथयोः ॥ ४३ ॥ आज्ञापितस्तदिह कर्मणि सूरिभिस्तैः ख्यातः क्षितावमरचन्द्र इति स्वशिष्यः । श्रीबालभारतमिति प्रततान काव्यं वीराङ्कमेतदविनश्वरमात्मनोऽङ्गम् ॥ ४४ ॥ शस्ते प्रशस्तिसर्गेऽत्र रङ्गत्कविगुरुक्रमे । निश्चित्य स्पष्टतां नीता नवाशीतिरनुष्टुभाम् ॥ ४५ ॥ चतुर्युक्तचत्वारिंशत्सर्गेरासन्ननुष्टुभाम् । षट्सहस्री नवशती पञ्चाशद्वालमारते ॥ ४६ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनम्नि महाकाव्ये - वीराङ्के चतुश्चत्वारिंशत्प्रशस्तिसर्गः । .. समाप्तं चेदं बालभारतं नाम महाकाव्यम् । १. 'वाग्भट' ख. २. 'संयोग' ख. ३. 'सहस्रं' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy