________________
कविप्रशस्तिः बालभारतम् ।
४८९ यन्मार्गाग्रतृणालिरिक्षुलतिका यद्वालुकामण्डलं
खण्डो यत्तटगर्भनीरममृतं यत्कर्कराः शर्कराः । यत्फेनप्रचयः सुधारुचिरयं यत्संरवोऽनाहत
ध्वानस्ताः शतशोऽस्फुरन्क न यतेस्तस्य प्रबन्धापगाः॥२७॥ तेनाकारि पुरारिपर्वतशिरोधिकारि धात्रीलता
लंकारि स्फुटपापहारि भुवने वृन्दे जिनेन्द्रौकसाम् । आरोपोन्नमितेन यस्य नियतं दण्डोच्चयेनोच्चकै
विद्धं व्योम दधाति किं न परितश्छिद्राण्युडुच्छद्मना ॥ २८ ॥ गाम्भीर्ये च गुरुत्वे च माधुर्ये च ध्वनौ च कः। पर्यन्ताब्धेर्जलाधार इव तस्यैव तुल्यताम् ॥ २९ ॥ श्राद्धाश्रद्धाभाजनमुदितसमाजनविराजिनो विप्रान् । पौरांश्च भक्तिगौरान्कदाचिदाचष्ट स मुनीन्द्रः ॥ ३० ॥ ग्रहीतुमतुलाग्रहः परपुरप्रवेशव्यसोः
कपालमथ पालनाद्वपुष एकखण्डं मम । स योगिपुरुषोऽकृत प्रमृतगोप्रयोगं मया
खरक्षणविचक्षणा त्वघटि चेटकानां घटा ॥ ३१॥ भुवनविजयविद्यां सिद्धिकर्मण्यवद्या___ मसुमदसुविनाशैः साधयिष्यन्स योगी। चिरविरचितयत्नो मत्कपालग्रहार्थ
विहरति परितो मन्मृत्युकालप्रतीक्षः ॥ ३२॥ व्यसोर्नगरनिर्गमे डमरुकध्वनियॊमनि
स्फुटः स्फुरति तद्यदा मम शिरोस्थि चूर्ण्य तदा । इतीद्धमतिलीलया स मुदमुद्वहन्मच्चितां
चिराय परिपूरयत्यगरुचन्दनौधैः पुरा ॥ ३३ ॥ इति विरचितशिष्यः स क्षमी ध्यानशुद्धि
त्रुटितविकटकर्मा निर्मलीभूतचित्तः । १. 'तस्यै तु' ग.