________________
४८२
काव्यमाला ।
त्वद्विद्वेषपुरे पुरा निवसति प्रासादवृन्दध्वज
च्छायां केलिकलापिभिः फणिगणभ्रान्त्या निहत्यार्दिताः । शून्यं संप्रति सर्वतो निजपतिप्रध्वंसवैराग्यतो निर्वैरा इव ते क्षिपन्ति न मुखं सर्पत्सु सर्पेष्वपि ॥ १४९ ॥ शिखरिषु हृदभूतैर्भूमिनेतः प्रभूतै
स्त्वदहितयुवतीनां दृग्जलैः कज्जलाढ्यैः । अहह विरहखिन्नाः खेचराणां रमण्यः
श्रुत्वा
प्रतिपदमनुयज्ञं प्रीतिलेखांल्लिखन्ति ॥ १४६ ॥ पार्थप्रपौत्रं किमपि तव नवं वर्णनि स्वर्णकर्णालंकारं कारयिष्ये किमियमिति वधूत्तंसितालीदलालीम् । आदायादाय देशान्तरचरकवयोऽरण्य देशेऽपि शत्रुक्षत्रस्त्रीनेत्रबाष्पाञ्जनदरिषु लिखत्यद्भुतत्वत्प्रशस्तीः ॥ १४७ ॥ दिगन्तान्दिग्दन्तावलकटभिया तावकभुज
भ्रमान्मुक्त्वा जग्मुर्गिरिविवरमार्गैरहिपुरम् । अहीन्द्रं तद्रूपं नृपतिवर तत्रापि रिपवो
निरूप्यांशुत्रासाद्दयुगतिमतिदीना विदधतु ॥ १४८ ॥ जम्भजित्करिकरो भवद्भुजः पन्नगेन्द्र इति सोदरास्त्रयः । संविभज्य जयिनो जगत्रयं भूमिपाल परिपालयन्त्यमी ॥ १४९ ॥ त्वद्भुजभ्रमकणः फणीन्द्रदिग्वस्तिहस्त पविदण्डमण्डनः । दैन्यतोऽब्धिजलदुर्गविष्टरे विष्टरश्रवसि याति विष्टपम् ॥ १९० ॥ स्पर्धा कुतो वास्यति भूभुजंग भुजंगराजः स भवद्भुजेन । यस्त्वत्क्षतारित्रजपातभुग्न धाराभरेणापि विभर्ति खेदम् ॥ १५१ ॥ रक्तदुजंगकुल होमबलप्रलीना
धारां धरां क इव धारयितुं क्षमः स्यात् । इत्थं जना निजगदुर्न विदुर्जडास्ते राजन्भवद्भुजभुजंगकृतस्थितिं ताम् ॥ ११२ ॥