________________
आस्तीकपर्व-१सर्गः] बालभारतम् । --- ४८१ वायुर्न कापि तस्थावधित धनदतां गुह्यकेन्द्रो गतोऽद्ि
शूली धूलीधुतार्के भरनतभुजगे दिग्जिति त्वत्प्रयाणे ॥ १३८॥ त्वप्रारब्धप्रचण्डप्रधननिधनितारातिवीरातिरेक
क्रीडत्कीलालकुल्यावलिभिरलभत स्यन्दमाकन्दमुर्वी । दम्भोलिस्तम्भभावद्भुनभुजगजगद्भर्तुराभर्तुरेनां
तेनायं मूर्ध्नि रत्नद्युतिततिमिषतः शोभते शोणभावः ॥ १३९॥ विज्ञैरागमतो मतो यदि वलीहेतुर्न तद्भावतो __ बिम्बं भिन्नमरातिभिस्तव शिवप्रस्थायिभिः पार्थिवैः । भिन्नस्तैः पृथिवीपुरंदर परं प्रालेयरश्मिर्यत
स्तस्मिन्कज्जलकश्मलच्छविविलं लक्ष्मच्छलं लक्ष्यते ॥ १४० ॥ कल्पे कल्पे भवसि भुवनानन्दविद्वेषिवृन्दा__ वस्कन्देषु त्वमसमगुणः सत्प्रतापः क्षमापः । तद्रोमाञ्चं भजति गिरिभिर्भूतधात्री धुनीते
चन्द्रादित्यच्छलपरिलसत्कुण्डलं व्योममौलिम् ॥ १४१ ॥ अमी प्राज्यं राज्यं जगति रचयिष्यन्त्यरिनृपा
निमान्भेत्स्यामीति द्रुहिणि भवतो निश्चयलयः । प्रतिज्ञातं धाता तव तु तनुते निष्फलमदो . मदोगत्वत्पादप्रणतिमतिमेतेषु वितरन् ॥ १४२ ॥ अदन्तैर्मातङ्गैविटपिभिरपुष्पैरनुड्डभि
स्तमिस्त्राभिः सरमणिभिरफेनै लधिभिः । अमीभिः श्रीसोमान्वयतिलक विश्वत्रयमपि
प्रसर्पद्भिः पूर्णत्वदरिकुलदुष्कीर्तिनिकरैः ॥ १४३ ॥ त्वत्तेजस्ततितापिता इव विपल्लीलाकटाक्षच्छटा
संश्लिष्टा इव संनिधिस्थितवधूनिःश्वासदग्धा इव । दुष्कीर्तिव्यतिषक्तमूर्तय इव क्ष्माकान्त भान्ति ध्रुवं दुर्ध्यानद्युतितन्मया इव वने श्यामत्विषस्त्वद्विषः ॥ १४४ ॥