________________
४८०
काव्यमाला ।
मन्येऽब्धौ वडवानलं फणिपुरे कालाग्निरुद्रं दिवि त्र्यक्षाक्षिज्वलनं पयोधरपथे सौदामनीडम्बरम् । पूर्वस्यां दिशि श शस्त्रमधुना कार्य किमत्रात्मभिर्भानुर्मन्त्रयतीति सोमकुलज त्वत्तेजसि स्फूर्जति ॥ १३१ ॥ तव प्रतापस्तपनस्तदन्तः पुमांस्त्वमेकोऽसि हिरण्यवर्णः । भवद्विषां सत्त्वजुषां महांसि त्वय्येव मज्जन्ति महीभुजंग ॥ १३२ ॥ निःशोभं भवभालभीमनयनं दम्भोलिकीलागल
लीला लुम्पति दावपावकविभापूरः परक्रूरताम् । अर्कः कर्कशतां समुज्झति वहत्यौर्वो न गर्वोद्गमं
श्री सोमान्वय विश्ववल्गनकलामत्ते भवत्तेजसि ॥ १३३ ॥ व्योम्नि व्योममणिर्वने दवशिखिज्वालाकलापः पयोराशौ वाडवपावको जलधरस्तोमे तडिद्विभ्रमः । एते पौरववंशसंभव भवत्तेजोभिरस्तौजसो
मना दुर्यशसीव भान्ति विलसज्ज बालजालप्रमे ॥ १३४ ॥ पङ्किः प्रतापदीपानां महीप तव दीप्यते ।
:
ब्रह्मणोऽपि तमस्विन्यां भावी दीपोत्सवो यया ॥ १३५ ॥ यत्र संचलति संचलत्पदः सुस्थिते भवति सुस्थितं जगत् । तद्भवं भुवि भवानवातरत्ख्यातमेव मतमद्वयं विभो ।। १२६ ।। देव त्वत्रयात्रा समयसमुदयत्तुङ्गमातङ्गशुण्डादण्डाग्रप्रौयनाग्रत्तुरगखुरभरैः सानुमन्तः समन्तात् । सातङ्कं कम्पमानाः शकुनिकलकलैः प्रस्तरव्रातपातैः
निष्कासयन्ति खकुहरविहरत्प्रत्यनीकावनीपान् ॥ १३७॥
शक्रः संक्रन्दनोऽभूदकलयदनलस्तापमापत्कृतान्तः काय क्रव्यादभर्ताजनि रजनिचरोऽम्बुप्रविष्टः प्रचेताः ।
१. ' सौदामिनी' ग. २. 'सर्वस्यां' ग. ३. 'गर्वोद्यमम्' ग. ४. 'विश्वलालन कला' ग. ५. 'ग्राय' ख.