________________
आस्तीक पर्व - १ सर्गः ]
बालभारतम् ।
त्वद्यशश्छविलवापहारिणी नैव दैवतधुनीति घुष्यताम् । यां शिवः शिरसि केशवक्रमस्पर्शदिव्यविमलामलालयत् ॥ १२४ ॥ खर्वः पार्वणशर्वरी वरयिता गर्वी न दवकरा -
धीशः श्रीधराधरोऽतिविधुरः स्वः सिन्धुरो नोद्धुरः । ईशोऽन्तं धुनी च नीचमहिमा सान्द्रो हिमाद्रिश्च न श्री सोमान्वयशक तावकयशश्चक्रे दिशः क्रामति ॥ १२५ ॥ व्याषेधो धरणीधरेशितुरनध्यायः सुधाया विधोरन्तर्धिर्धनदाचलस्य निधनं दुग्धोदसिन्धोः पिधाः । प्रत्याख्यानममानवद्विपमहादेहाद्युतेर्निहवो -
जह्नव्यास्तव भूभुजंग यशसां भारो दिशां हारति ॥ १२६ ॥ गङ्गां शृङ्गारयद्भिस्तुहिनकरकलाशेखरं रेखयद्भिः
४७९
श्रीखण्डं मण्डयद्भिर्भुजगविभुविभासंचयं चञ्चयद्भिः । चन्द्रं निस्तन्द्रयद्भिः स्फटिक गिरिशिरोवृन्दमानन्दयद्भिसुकान्त शुभ्रैस्त्रिभुवनमभितः शोभितं त्वद्यशोभिः ॥ १२७ ॥ शेषं निःशेषयन्त्यो हरशिखरिशिखा संघमालङ्घमाना मन्दारं मन्दयन्त्यो हरिचरणसरिद्वाहमागाहमानाः । कर्पूरं दूरयन्त्यः सुरसुरभिपयःसंचयं वञ्चयन्त्यो
विश्वं विश्वंभराया रमण तव यशोराजयो राजयन्ति ॥ १२८॥ उक्तः सर्व एव तत्त्वविदुरैर्देवः शिवोऽसौ न तमिथ्या यत्कुसुमैः प्रपूजयसि यैः सर्वाङ्गमेनं विभुम् । दीनार्तिद्रुमदाव तावकयशस्तोमच्छविच्छद्मना
तुल्यं सर्वगतानि तानि सुरभीकुर्वन्ति सर्वे जगत् ॥ १२९ ॥ शेते पश्य चतुर्मुखोऽपि जगतामन्ते तदन्ते हरि
स्तस्यान्ते च हरः स्फुरद्दिननिशा युग्मव्यवस्थावशात् । सर्वान्तेऽपि नरेश न स्वपिति ते कीर्तिः पुनः संकट
व्योमौकःस्थितिचिन्तया भवतु किं तस्या दिनं का निशा ॥ १३० ॥ १. 'सर्वान्तोऽपि ' ग.