________________
४७८
काव्यमाला |
सा कल्पः कल्पशाखी त्रिदिवभुवि सुधा मार्गणानां सुराणां मिथ्या वित्तानि दत्ते यदभिनयनटीभूय भूयस्तराणि ॥ ११७ ॥ किं वर्ण्यः कलिगन्धसिन्धुरहरिर्भूवल्लभ त्वं कलावल्लीनामवनी वनीयकवनीधारालधाराधरः ।
कल्पोर्वीरुहमूर्ध्नि मौक्तिकमयानूनप्रसूनच्छवि
च्छद्मानः पृथुमानदानजनिताः क्रीडन्ति यत्कीर्तयः ॥ ११८ ॥ विश्रामाय न कल्पवृक्षवनमप्यालोकते नोच्चकै -
श्चिन्तारत्नधराधरेऽपि कषणक्रीडारसं काङ्क्षति । वृन्दो कामदुहां व वाञ्छतु समं धुर्ये धरायां भवानेको वीरवृषो वहत्यहरहर्दानस्य दीर्घा धुरम् ॥ ११९ ॥ अचैतन्याश्चिन्तामणिसुरगवीकल्पतरवः पयोधेरुत्तस्थुर्यदि सति महादानिनि वलैौ । तदेते भूतः कथमिव भवन्तं क्षितितले
भविष्यन्तं मत्वा प्रथममगमन्मेरुशिखरम् ॥ १२० ॥ दाता येन रसातलं व्रजति तद्दानं बलिर्दत्तवा
न्क्कास्तु स्वःसुरभीमणिक्षितिरुहां दाने गुणग्राहिता । मातुः प्रार्थनयापि विश्वजयिने कर्णोऽपि निर्भीतये
नाभीतिं जयिने ददौ कमिव तत्त्वां स्तौमि भूमिप्रभो ॥ १२१ ॥ अर्हद्भक्तसुहृद्विभक्तिविभवश्रीवल्लिशालद्विष
त्क्षोणीपालकपालपाटनपटुप्रोद्दामवामर्भुवः । विद्वत्पुण्यपुरैकगोपुरपुरोभागीति भागीरथी
भासा भासितभूनभांसि न भृशं जग्मुर्यशांसि क्व ते ॥१२२॥ शत्रुक्षत्रकलत्रनेत्र सलिलैर्जम्बालजालस्पृशि
भ्रान्त्वा भूपतिभालभूषण भवत्कीर्तिर्भुवो मण्डले । यद्यन्ती विबुधालयं प्रति सुधाकुण्डे सुधांशौ न्यधादङ्घ्रिक्षालनमित्ययं खलु मलस्तस्मिन्गतः स्मेरताम् ॥ १२३ ॥
१. 'क्रमम्' ख.