________________
आस्तीकपर्व-१सर्गः) बालभारतम् । - -- ४७७ एष न्यायतपोधनः किमपि तद्वृत्तं वितेनेऽन्तरा
त्मानं त्वां कलयन्कलाढ्य जगदप्यासीद्यथा तन्मयम् ॥११०॥ पौरुषतरुमारूढावनीश तव संततं लतानीतिः । रिपुनिःश्वासोल्लसितैः सुरभयति दिशो यशःकुसुमैः ॥ १११ ॥ न व्यामोहं क्वचन तनुते, यत्र धत्ते विरोधं ___ धातुः पुत्र्या सह न सहनं चापलं चातनोति । हस्ते कृत्वा जगदिव कृतिस्तत्किमेषापि लक्ष्मी__भद्रापौत्रप्रभव भवताशिक्षि वृत्तं स्वमेव ॥ ११२ ॥ विश्वं न स्यादनीदृङिखिलमपि कदाप्येष लोकप्रवादः ___ कल्पे कल्पे ततस्त्वं मदयसि वसुधां लब्धपुण्यावतारः। कल्पद्रुः कामधेनुत्रिदशमणिरपि श्रीनिकेतस्रवन्ती
भूयाम्भोधिं गतानामिति भवति भवदानवारां विवर्तः ॥११३॥ दत्से दानमिदं सदा यदि ततः श्रीसोमवंश्यः स्वयं
प्राक्तोयप्रथनौचितीं शुचिकलाविस्मेर विस्मारय । तत्तत्पूरमयीषु सिन्धुषु पयः पीत्वा ध्वनिप्रोद्धतै
र्याच्यादैन्यपराङ्मुखैः पृथुगुण प्रार्थिष्यसे नार्थिभिः ॥ ११४ ॥ आजन्मापि कृशाकृति द्विजपति स्वे मूर्धनि वधुनी __ धौते धारयते जगत्पतिरसावग्रो गुणग्राहिणाम् । सद्यः संगतमप्यमुं वसुभरैः पुष्णाति पूषा शिरो__ भूषा दानवतामुभावपि शुभावेतौ गुणौ तु त्वयि ॥ ११५ ॥ भद्रापौत्रतनून पूजनविधिं वागीश्वरीजंगम
प्रासादेषु विशारदेषु विशदं किंचित्त्वया तन्वता । दारिद्यौघरजः प्रमार्जनकृते दत्ता स्वयं शाश्वती
लक्ष्मीः कर्मकेरीव मुञ्चति पुरोभागं न तेषां क्वचित् ॥ ११६ ॥ तादृग्दारिद्यमुद्रातुरचतुरचमूहर्षहेलानिदान
दनिरुद्यञ्जगत्यां जयति तव महीपाल पाणिर्महीयान् । १. 'वन' ख. २. 'चरी' ख.