________________
काव्यमाला |
विलोलदोलाशयनः समस्तं बालोऽयमालोक्य विलोलमेव । एकात्मतातत्त्वविवेकबोधि लयोद्गतानन्द इवापनिद्रम् ॥ २६ ॥ स्फुरत्प्रभायामुरसा रसायां चचाल वालः स्फटिकाचितायाम् । तरन्निवात्यद्भुतरूपकीर्तिदुग्धाम्बुधौ लोलकरक्रमोऽयम् ॥ २७ ॥ उत्तिष्ठतो वीक्ष्य जनान्सहेलं बालोऽप्यसावुत्थित एव तद्वत् । न बद्धमुष्टित्वभियेव बन्धुवर्गाङ्गुलीषु ग्रहणं चकार ॥ २८ ॥ यः कोऽपि यत्किचिदपि प्रतन्वन्दृष्टोऽमुना तद्विदधे तदैव । असावसाधारणबोधशक्तिरालोक्य कौतूहलिना जनेन ॥ २९ ॥ तत्सत्यमेव श्रुतिवाक्यमात्मा वै जायते पुत्र इति प्रतीतम् । तत्रैव पुत्रे नृपमद्रवत्योः कथं मिथः स्नेहरसोऽन्यथागात् ॥ ३० ॥ परस्परेर्ष्यानिधिरेककालं कालेऽभिस तरला कलाली । बोधाभिधानेन विलोचनेन विलोकयामासतमां तमेकम् ॥ ३१ ॥ भाग्योदयैरेव सुतस्य तस्य क्षीणे च रणे च गणे रिपूणाम् । भूपः शरासारयशांसि पातुं मृगव्यमव्यग्रमतिस्ततान ॥ ३२ ॥ मध्येवनं मार्गणविद्धनष्टमृगानुसारी मृगयाविहारी । भाग्योर्मिनिर्मुक्त इवार्थकामश्विरं स बभ्राम न कुत्र कुत्र ॥ ३३ ॥ मौनी मुनिस्तेन शमीकनाम्ना दृष्टश्च पृष्टश्च मृगप्रवृत्तिम् । अदत्तवाक्चापमुखोद्धृतेन मृताहिनाकारि सहारकण्ठः ॥ ३४ ॥ प्राप्तो गते राजनि कोपपिङ्गः शृङ्गी मुनेस्तस्य सुतः सशाप | यः पन्नगं मत्पितरि न्यधत्त तं तक्षको भक्षतु सप्तमेऽहि ॥ ३९ ॥ शमी शमीकः कृपयार्दितस्तं भूपालशापं कथयांचकार । भूपोऽपि संमन्त्रितमान्त्रिकौधः स्वरक्षणोपायपरामुखोऽभूत ॥ ३६ ॥ संमन्त्र्य मन्त्रिप्रवरैरथैकस्तम्भाप्रदेशस्थितसंनिवेशम् । सौधं विधायाशु सुधीः स रुद्धपरप्रवेशं नरपो विवेश ॥ ३७ ॥ जगत्रयीलङ्घनजाङ्घिकाहिहालाहलालीभिरलङ्घनीयम् ।
पार्श्वेषु रत्नौषधिमान्त्रिकौघमयं सयत्नत्रितयं ततान ॥ ३८ ॥
४७०