SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आस्तीकपर्व - १ सर्गः ] बालभारतम् । अथाहि दिष्टे मुनिशापनुन्नः पृथासुतद्वेषविशेषतप्तः । मूर्तो यमक्रोधशिखीव नागः स नागसाहं नगरं प्रतस्थे ॥ ३९ ॥ विषद्विषन्मन्त्रसुधाब्धिमेष द्विजं द्विजिह्नः पथि कश्यपाख्यम् । यान्तं स्यात्पार्थिवपालनाय दरिद्रमिष्टद्रविणं ददर्श ॥ ४० ॥ स पश्यतस्तस्य वटं विषाग्निघातेन दग्ध्वा तमुवाच विप्रम् | स तक्षकोऽहं नृपरक्षणे चेत्क्षमोऽसि तज्जीवय वृक्षमेनम् ॥ ४१ ॥ अहेरदत्ताथ सुधौघवृष्ट्या दृष्ट्या तरूज्जीवनमुत्तरं सः । महात्मनां वाग्भिरसूचितैव क्रिया विशत्युज्ज्वलकार्यनाट्यौ ॥ ४२ ॥ मर्त्यैरदेयं द्रविणंप्रदाय स तक्षकेण प्रहितोऽथ विप्रः । चेष्टाचयज्ञातनुपालकालः संपूर्ण कामः स गृहं जगाम ॥ ४३ ॥ क्ष्मापं ययुस्तापसवेषभाजो भुजंगमाः केऽप्यथ तक्षकोक्तया । अत्रान्तरे भीतिभिरस्पृशन्तो विषौषधीधर्मविधिच्छलेन ॥ ४४ ॥ दत्त्वाशिषं तत्स्वयमर्पितानि फलानि पुष्पाणि च पाणियुग्मे । दधौ नृपस्तत्क्षणवीक्षणीयकृतान्तदेवार्चनवाञ्छयेव ॥ ४५ ॥ दृष्ट्रा क्रिमिं शौणदृशं पिशङ्गं सूक्ष्मं फले मन्त्रिणमाह भूपः । शापेन मुच्येय दशत्वसौ मां कीटो मुधाकल्पिततक्षकाख्यः ॥ ४६ ॥ एवं नृदेवं निगदन्तमेव दग्ध्वा ससौधं विषवद्विवीच्या । वृतस्वरूप युतकीटरूपः खं तक्षकस्तत्क्षणमुत्पपात ॥ ४७ ॥ जनमेजयनामाथ तत्सूनुर्भासुरां भुवम् । स बालोऽप्युज्ज्वलत्तेजा दिवाकर इवाकरोत् ॥ ४८ ॥ अब्धेरप इवाम्भोभृद्गुरुतः कलिताः कलाः । अन्या इव व्यधादेव जगदारवादकर्मणि ॥ ४९ ॥ सुवर्णवर्णकाशी स कुमारीमुदवाह सः । नृपो वपुष्टमां नाम पुष्टमाङ्गलिकोत्सवः ॥ १० ॥ दिव्यदम्पतिभिः प्रेक्ष्य तं खेलन्तं तयान्वितम् । निद्रा तादृक्प्रिया नास्ति दुःखितैरिव दूरिता ॥ ११ ॥ १. 'नृपान्त' ख. ४७१
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy