________________
आस्तीकपर्व-१सर्गः] बालभारतम् । दूरप्रियालिङ्गनभङ्गिभोगं पोष्यत्वयास्यज्जगदेकवीरम् । सदुःखहर्ष स्तनयुग्ममस्याः श्यामाननं पीनतमं च जज्ञे ॥ १३ ॥ तद्भूणमर्कः शशभृच्च वृद्धमातामहो वृद्धपितामहश्च । असिञ्चतां स्वस्वमहोभिरस्मात्तस्या वपुस्तापि च पाण्डु चासीत्॥ १४॥ असौ सपत्नी मम रत्नगर्भा सद्गर्भरत्नाहमपीति कामम् । मेयं मयापीडि वसुंधरेति सा मन्दमन्दाङ्गितिश्चचाल ॥ १५ ॥ सा देहसादोज्झितभूरिभूषा रत्नाङ्कितं कङ्कणयुग्ममेव । आबिभ्रती सार्कविधुर्विभातलक्ष्मीरिवाभासत नाशितोड्डुः ॥ १६ ॥ मन्त्रप्रभावद्धिसमर्थनाभिः साध्येऽपि सिद्धा हि महर्षिमित्रे । त्रैलोक्ययात्राजुषि वल्लभेऽस्या न दोहदः कश्चिदपूरितोऽभूत् ॥ १७ ॥ रराज सा दोहदपूरणेन समुज्ज्वलोन्मीलितदेहदीप्तिः । विस्फीतशीतद्युतिडम्बरेण कुमुद्वतीवाभिदलद्दलालिः ॥ १८ ॥ अमुग्धदेहातिदीपिताशं दुग्धाब्धिवीची च निधि कलानाम् । जगदृशां पुण्यपरम्पराभिः पुण्यक्षणेऽसौ सुषुवे तनूजम् ॥ १९ ॥ तेजस्विनं सूनुममुं प्रसूय विश्वाङ्गनासु प्रथमैव साभूत् । जायेत यस्यां तपनो न पूर्वी तामेव किं दिक्षु दिशं दिशन्ति ॥२०॥ दिशामधीशैर्विहितावतारे तस्मिन्कुमारे कमनीयमासि । नवीभवद्वल्लभविभ्रमाशाः प्रेसत्तिमाशा रभसेन रेजुः ॥ २१ ॥ तदनसक्तेषु दिगीश्वरेषु प्रधानमानी धनदस्तदाभूत् । तज्जन्मदानातिशयेऽपि राज्ञो न तुत्रुटे यत्सदने धनेन ॥ २२ ॥ जनेषु मामीजयते सुहृत्सु द्विषजनानेजयते पुरायम् । ... इति प्रतेने जगतीभुजंगस्तनूजमेनं जनमेजयाह्नम् ॥ २३ ॥ माधुर्यधुर्याणि किमु ब्रवीमि नृप प्रियायां स्तनयोः पयांसि । यानि प्रकामं पिबति स्म तस्य शिशोर्मुखीभूय सुधाकरोऽपि ॥ २४ ॥ दृशा सितं नासिकयास्य गन्धं मुखेन दुग्धं श्रवसा चटूक्तिम् । अङ्गेन पाणिद्वयलालनं च मातुः प्रमोदेन पपौ स बालः ॥ २५ ॥ १. 'प्रमुग्ध' ग. २. 'प्रशक्ति' ख...