________________
१६मौशलपर्व-१सर्गः] बालभारतम् ।
राज्ये वज्रमिह न्यस्य गते दुःखिनि फाल्गुने । सत्यभामादयो देव्यः कृशानुं विविशुः शुचा ॥ ५० ॥ श्रीविष्णुव्ययगोपालपराभवमहाशुचम् । हस्तिनापुरवमस्थमेत्य व्यासोऽर्जुनं जगौ ॥ ११ ॥ मित्रगोत्रप्रभाभूतिप्रभावविभुता हृता । विडम्बितो न कालेन कुत्र कः पुत्र मा मुहः ॥ ५२ ॥ हराद्यैरेप्यनिग्राह्यो लसदकॆन्दुदीपकः । सर्व हरति सर्वस्य कालोऽयं पश्यतोहरः ॥ १३ ॥ सूर्येन्दुचक्रविक्रीडदनित्यत्वरथोऽङ्गिनाम् । अधर्मविजयी कालो हरत्यर्थानसूनपि ॥ ५४ ॥ जगद्विडम्बनायैकनटं कौतूहली हसन् । अनित्यतानटीकान्तं कालमालोकते कृती ॥ ५५ ॥ पर्यन्तविरसा भावा न भवेयुभवे यदि । तत्परोक्षसुखे साक्षाढुःखे तपसि कः स्फुरेत् ॥ १६ ॥
यदुषु मुशलपातप्रेङितैरात्मनि क्ष्मा___धरवनचरगोपक्रीडितैश्च प्रतप्तः । इति मुनिपतिवाणीपुण्यपीयूषसिक्तो
गजनगरमगच्छन्मध्यमः पाण्डुपुत्रः ॥ १७ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । तजिह्वाञ्चललोलतल्पतरलब्राह्मीस्मिते षोडशं पर्वैतत्किल बालभारतमहाकाव्येऽगलन्मौशलम् ॥ १८ ॥
इति श्रीबालभारते महाकाव्ये षोडशं मौशलपर्व समाप्तम् ।
१. 'वज्रे राज्य' ख-ग. २ 'रप्यनुप्रा' ख. ३. 'प्रेषितै' ख. ४. 'ब्राह्माशते' क; 'ब्राह्मीस्मृते' ख.